________________
सटीकता किंकरक्षायाम्
अथाभावस्य च प्रत्यक्षादिषु यथासम्भवमन्तर्भीवः तत्र तावदिह भूतले घटा नास्तीति प्रतीतिरिन्द्रियजन्या अनन्यत्रो पक्षीणेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वात् रूपादिबुद्विवत् । अधिकरणग्रहणोपक्षी
मिन्द्रियमिति चेत् न त्वगिन्द्रियेण घटादिग्रहणे प्रतियोगिस्मृतिमतान्धस्य शुक्लादाभावप्रतीतिप्रसङ्गा
१०२
तू । प्रतियोगिग्राहकेन्द्रियेणाधिकरणप्रतीतिरपेक्षणी
इत्थमथापत्तिमनुमाने ऽन्तर्भाव्य सम्प्रत्यभावं प्रत्यक्षादिषु यथायथमन्तर्भायितुमाह । अथेति । अधिकरणग्रहणप्रतियोगिस्मरण सहकृतयानुपलब्ध्या षष्ठप्रमाणेनाभाar गृह्यते नेन्द्रियादिनेति मीमांसकाः । यथाहुः ।
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया ॥ इति । तान् प्रति कचिदभावस्य प्रत्यक्षत्वं साधयति । तन्त्र तावदिति । अत्र प्रतिपत्ते रापरोक्ष्यादित्याद्युदयनेनेोकहेत्वकस्येत्वात् प्रथमं हेतुमुपेक्ष्य द्वितीयं प्रयोगता दर्शयति । इहेत्यादि । अनयोरेव प्रतिज्ञादृष्टान्तयो: साक्षास्कारिप्रतीतित्वादिति हेतुप्रयोगे प्रथमहेतुव्याख्यानं चेति द्रष्टव्यम् । न च प्रतिवाद्यसिद्धी हेतुः तस्यापरोक्षत्वे लैङ्गिका दिवदज्ञातकरणत्वानुपपत्तेरिति लिङ्गग्रहणपक्षीणेन्द्रियव्यापारानुविधायिनि लैङ्गिकज्ञाने व्यभिचारनिरासार्थमुक्तम् अनन्यत्र पक्षीणेति । विशेषणा सिडिमाशङ्कते । अधिकरणेति । किं येन केनचिदिन्द्रियेणाधिकरणग्रहणमिषं प्रतियोगिग्राहकेन्द्रियेण वा नायः अतिप्रसङ्गादि
246