________________
प्रमाण प्रकरणे ऽर्थापत्त्यान्तर्भावनियम् ।
१०१
नास्ति मूर्तत्वे सति गृहे सत्त्वात् यथाहमिति । तस्मात् सिद्धमेव अनुपपदामानदर्शनात् तदुपपादकार्यान्तरकल्पन ) मनुमानमिति । अन्यथानुमानतया प्रसिद्धे धूमेोदाहरणे ऽपि धूमः स्वकारणं दहनमाक्षिपति प्रतिक्षिपति चानुपलब्धिरिति प्रमाणद्वयविरोधात् पर्वतावाग्भागे दहनाभावः परभागे च दहनावस्थानमित्यर्थापत्तितापतिः । यथाहुः ॥ अनियम्यस्य मायुक्तिनीनियन्तोपपादकः । न मानयोर्विरोधोऽस्ति प्रसिद्धे वाप्यसौ समः ॥ इति । प्रयोगमाह । तथैवेति । क्रमात् पदद्वयेनाकाशादौ वहिष्टेषु च व्यभिचारनिरासः । परमप्रकृतमुपसंहरति । तस्मादिति । अनुपपद्यमानोपपादकयोर्व्याप्यव्यापकभावादविरोधाचेत्यर्थः । तथाप्यनुमानत्वानङ्गीकारे धूमाद्यनुमानस्याप्यर्थीपतित्वापतेर्जगत्यनुमानकथैवास्तमियादित्याह । अन्यथेति । तत्रापि प्रमाणद्वयविरोधं सम्पादयति । धूम इति । कार्यानुपलब्ध्येोर्दहनभावाभावग्राहिणेोर्विरोधादित्यर्थः ।
अन्नोदयनसम्मतिमाह । यथाहुरिति । अनियम्यस्थाव्यान्यस्यायुक्तिरनुपपत्तिः न अनियन्ता अव्यापक उपपादको न भवति तथा मानयोर्भीवाभावग्राहिप्रमाणयेोः पूर्वोक्तरीत्या विरोधच नास्ति अतोऽर्थापत्तिरनुमानान्न भिद्यत इति भावः । अन्यथा प्रसिडे धूमाद्यनुमाने चासो विरोधः समः तस्याप्यर्थापत्तित्वापत्तिरित्यर्थः । इत्यथीपश्यन्तर्भावः ॥
(१) तदुपपादक कल्पन - पा· B पु. ।
३१५.