________________
प्रमाण प्रकरणे शब्दनिरूपणम् ।
यथावस्थितार्थदर्शी यथादृष्टार्थवादी चाप्तः । तस्य श्रोतृप्रवृत्तिनिवृत्त्युपयोगिवचनमागमः । यथावचनमप्रमाणं यथा वि
र्थदर्शिनेोऽप्ययथार्थवादिना प्रलम्भकस्य वाक्यम् । यथार्थवादिनेाऽयथार्थदर्शिनाऽपि वचनं तथा यथा भ्रान्तस्यायथार्थदर्शिना यथार्थवादिनाऽप्यष्टौ काकदन्ता इति । श्रोतृप्रवृत्तिनिवृत्त्यनुपयेोगिवचनमनुपादेयमिति तन्निवृत्त्यर्थमुक्त परार्थ इति । तदुक्तम् । प्राप्तोपदेशः शब्द इति । उपदिश्यते ऽनेनेति उपदेशो वाक्यं तदर्थज्ञानं वा । पूर्वत्र वाक्यार्थज्ञानं फलमुत्तरत्र हानादिबुद्धिरिति ॥
५
नवाप्तोपदेश आगम इति प्रसिद्धं लक्षणं किं नेष्यत इत्याशङ्का तदेवेदमित्याह । यथाव स्थितेति । एवं च सति पुनरातलक्षणोक्तगौरवं नास्तीति भावः । परार्थ शब्दार्थमाह । श्रोतृइति । उपदेशशब्दार्थमाह । वचनमिति । वाक्यमित्यर्थः । क्रमाद् विशेषणत्रयस्यापि व्यावर्त्यमाह । यथार्थेत्यादि । शास्त्रं हि तच्छासनादित्युक्तत्वादपरार्थस्य प्रामाण्यमेव नास्तीत्यर्थः । अत्र सूत्रसम्मतिमाह । तदुक्तमिति । ननूपदिष्टिरुपदेशः भावे घञः स्मरणात् तत्कथमस्य शब्दशब्देन करणवृत्तेन सामानाधिकरण्यमित्याश का अकर्तरि चकारके सज्ञायामिति करणार्थत्वमाह । उपदिश्यते ऽनेनेति । पक्षsa sपि फलभेदं दर्शयति । पूर्वत्रेति । इत्यागमः ॥
1
(१) यथादर्शनवचने ऽपि - पा. B पु. ।
પ