________________
सटीकतार्किकरक्षायाम्
तत्प्रतियोगिक स्मर्यमाणवस्तुगत वैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वमास्थेयं तुल्यन्यायत्वात् । यथाहुः । साधर्म्यमिव वैधर्म्य मानमेवं प्रसज्यते । अर्थापत्तिरसे) व्यक्तमिति चेत् प्रकृते न किम् ॥ इति ॥ २३ ॥ ऽऽ ॥ अथागमं लक्षयति ॥ यथार्थदर्शिनः पुंसेो यथादृष्टार्थवादिनः ॥ २४ ॥ उपदेशः परार्थे यः स इहागम उच्यते ।
६४
तिप्रसङ्गं चाह । किं चेति । न्याय उपपत्तिः ।
अत्रोद्यनसंवाद (२)माह । यथाहुरिति । साधर्म्य सादृश्यं वैधर्म्यं वैसादृश्यं मानं मानान्तरं तथा च साहइयदर्शनात्थायाः सादृश्यबुद्धः प्रमाणान्तरत्वे वैसादृश्यदर्शनेात्थायास्तद्बुद्धेरपि तथात्वापत्तिरित्यर्थः । अथ गृह्यमाणस्य गोः स्मर्यमाणमहिषवैसादृश्यान्यथानुपपत्त्या तस्वाप्येतद्वै सादृश्यकल्पनादियमर्थी पत्तिरित्यभिमानस्तर्हि
वगत गोसादृश्यान्यथानुपपत्त्या गोरप्येतत्सादृश्यकल्पनमर्थापत्तिरेवेति कष्ट (1) मुपमानस्वरूपमेव नष्टमित्याहा - थापत्तिरिति । इत्युपमानम् ४) ॥ २३ ॥ ऽऽ ॥ उद्देशक्रमादुपमानानन्तर्यमागमस्येत्याशयेनाह । अ
थेति ।
७५२
(१) अर्थापत्तरसा - पा. C. | (२) सम्पति - पा· E पु. (३) क्लिष्ट - पा· E पु.
(४) इत्युपमानम्-इति नास्ति E पु· ।