________________
प्रमाणप्रकरणे प्रत्यक्षनिरूपणम् ।
ग्राह्मांश कल्पनानां भ्रान्तत्वेनाभ्रान्तपदेनैव (१) व्यावूत्तिसिद्धेः कल्पनापोढविशेषण वैयर्थ्यात् । किं च () बिवादाध्यासिता विकल्पः स्वगोचरे प्रत्यक्षं प्रमाणत्वे सत्यपरोक्षावभासित्वात् निर्विकल्पकवत् । न चात्र विशेषणासिद्धिः । यतः साधितमधस्ताद् विकल्पानां प्रामाण्यम् । शाब्दिकास्तु सविकल्पकमेव प्रत्यक्षमाहुः । यथाहुः ।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ इति । त्मनेपदम् । कल्पनापोढं नामजात्यादियोजनारहितम् । दूषयति । तदसदिति । बाह्यांगे ज्ञानस्यैव नीलाद्याकार sere: | aforeपकप्रामाण्ये प्रमाणमप्यस्तीत्याह । किं चेति । प्रत्यक्षं प्रत्यक्षप्रमाणमित्यर्थः । अन्यथा प्रत्यक्षाभासेनार्थान्तरता त्यात् । प्रमाणत्वे सतीति अधिसंवादित्वे सतीत्यर्थः । अन्यथा साध्यावैशिष्ट्यात् । एतेन प्रत्यक्षाभासव्युदासः । शेषं लैङ्गिकादिनिरासार्थम् । अधस्तात् सौगताक्तप्रमाणसामान्यलक्षणनिरासावसर इत्यर्थः । प्रामाण्यमविसंवादित्वमित्यर्थः । निर्विकल्पकं व परीक्षितुं तत्रापि विप्रतिपत्तिमुपन्यस्यति । शाब्दिका - स्विति । सविकल्पकस्यैव प्रत्यक्षत्वे तदुक्तामेव थुकिं लिखति ।
न सोऽस्तीति । धशब्देनानुविद्धमित्यन्वयः । घटः पट इति शब्दविशिषृविषयघटितमेव सर्व विज्ञानं गृह्यते ऽनु
(१) अभ्रान्तपदोपादानेन - पा. D पु. | (२) किंतु-पा. D पु.
13 03