________________
सटीकता किंकरक्षायाम् ।
नामादिभिर्विशिष्टार्थविषयं सविकल्पकम् ॥ १९ ॥ श्रविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम् (१) ।
नामजातिद्रव्यगुण क्रियाभिर्विशिष्टमर्थं विषयीकुर्वत् सविकल्पकं प्रत्यक्षम् । यथा देवदत्तोऽयं ब्राऋणः शुक्लो दण्डी गच्छतीत्यादि । नामादिविशेषणवैधुर्येय स्वलक्षणमात्रविषयं निर्विकल्पकम् । यथाहुः ।
श्रस्ति ह्यालोचनञ्चानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्ध ( ) वस्तुजम् ॥ इति ।
निर्विकल्पकमेव प्रत्यक्षमा स्थिषत सागताः । यथाहुः । कल्पनापोढमभ्रान्तं प्रत्यक्षमिति । तदसत् ।
६०
हानादिव्यवहारहेतुत्वात् सविकल्पकस्य प्राथम्यं रादुन्नेयत्वादन्यस्य तदानन्तर्यम् । उद्दिष्टयेोः पुनरुद्देशः पुनरुक्तिरत आह । तयोरिति ।
आदिशब्दार्थ दर्शयन्नाद्यं विवृणोति । नामजातीति उदाहरति । यथेति । द्वितीयं विवृणोति । नामादीति । अन भट्टपादसम्मतिमाह । यथाहुरिति ।
आलोचनज्ञानं व्यवहारानङ्गमाकलनमा त्रमित्यर्थः । आदिशन्दाज्जडमुमूवी दिसंग्रहः । शुद्धवस्तुजं विशेषणविशेष्यभावानुल्लेखीत्यर्थः ।
अथ सविकल्पकस्य प्रामाण्यपरीक्षार्थी परेषां विप्रतिपत्तिं तावदुपन्यस्यति । निर्विकल्पकमेवेति । आस्थिपत प्रतिज्ञातवन्त इत्यर्थः । आङः स्थः प्रतिज्ञायामित्या
।
(१) प्रत्यक्षमितरद्भवेत् - पा. पु. । (२) मुग्धेति क्वचित् ।
០០៩