________________
सटीकता किकरक्षायाम् ।
घटज्ञानसन्तानविच्छेदः स्यात् स्याञ्च तदुपाधिककालभेदाकलनेनैव स्मृतीनामपि प्रामाण्यम् । एतेन ज्ञाततैवोपाधिरिति निरस्तम् । तस्यां च न किञ्चित् प्रमाणं पश्यामः । शातो घटः प्रकटो घट इति विषयविशेषणत्वेन सांध्यदक्षमीक्ष्यत एवेति चेत् । न ज्ञान
५०
विशिष्टघटज्ञानमिति विजातीयव्यवधानाद् घटज्ञानधाराविच्छेदः स्यादित्यर्थः । ननु न हि स्वाङ्गं स्वस्थ व्यवधायकमिति न्यायाज्जिज्ञासादीनां तदर्थतया तदङ्गत्वान्न पटादिज्ञानवद घटज्ञानसन्तानविच्छेदकत्वमित्याशङ्का तर्हि तेनैव न्यायेन स्मृतीनामपि धारावाहिनीनां सुस्मृषीतज्ज्ञानादिक्रमेणानधिगतार्थत्वसम्भवादतिव्याप्तिः स्यादित्याह । स्याश्चेति । इममेव परिहार कालोपाध्यन्तरे ऽप्यतिदिशति । एतेनेति । तत्रापि ज्ञानस्यैवोपाधित्वाद घटज्ञानानन्तरं ज्ञातता तज्ज्ञानं तद्विशिष्टकालज्ञानं ततस्तकालविशिष्टघटज्ञानं चेति क्रमे पूर्ववत् तेषां व्यवधायकत्वे सन्तानविच्छेदः अव्यवधायकत्वे स्मृतावतिव्याप्तिरित्यर्थः । एतेन ज्ञाततयैव विषयाधिक्यमित्यपि निरस्तम् स्मृतावतिव्याप्तेरिति । एतच्च ज्ञाततामङ्गीकृत्योक्तम् । अथास्या मूले कुठारं प्रयुङ्क्ते । तस्यां चेति । अस्ति तत्र प्रत्यक्षमेच प्रमाणमित्याशङ्कयाह (१) । ज्ञात इति । अत्र प्रकट इति माक्षात्कृत इत्यर्थः । तथा च ज्ञात इति सामान्यतः साक्षात्कृत इति विशेषतश्च इत्यर्थ आचार्येोक्तः सिद्ध्यति । अध्यक्षमिति क्रियाविशेषणम् । तस्या अन्यथा सिद्धिमाह ।
(१) शहूते - पा. पु. 1
£6