________________
प्रमाण प्रकरणम् ।
( १ ):
गात् । प्रत्यक्षत्वे ऽपि कालस्य स्वता भेदाभावात् । औपाधिकभेदस्य चोपाधीनां सूर्यगत्यादीनामनवभासे saभासा सम्भवान्न तद्विशिष्टवस्तुप्रतीतिः सम्भवति । प्रतिक्षशवर्तिन्यबुभुत्सितग्राह्या जिज्ञासैवापाधिरिति चेत् । तर्हि जिज्ञासातज्ज्ञानान्तरितत्वेन दावप्रसङ्गादटेतरद्रव्यपरिशेषात् स एव काल इत्यर्थः । नन्वनुव्यवसाये पूर्व ज्ञानोपनीतस्य परमाण्वादेरिव चाक्षुषे स्पार्शने वा चन्दनप्रत्यक्षे प्राणोपनी तगन्धस्येवानुमानेोपनीतस्यापि कालस्य तत्सहकारादेव विशेषणतया विशिष्धारावाहिप्रत्यक्षेष विषयत्वसिद्धी सिद्धं नः समीहितमित्याशक्य किं सत्यं वर्तमानत्वैकाकारेण कालमात्रस्य प्रत्यक्षत्वेऽपि तद्भेदानामतिसूक्ष्मतया दुर्लक्षत्वान्न सिद्धं नः समीहितमित्याह । प्रत्यक्षत्वे ऽपीति । कालमात्रस्येति भावः । ननु
प्रत्यक्षत्वे as अपि प्रत्यक्षा एवं पृथिव्यादी तथा दर्शनादित्याशा किं ते पृथिव्यादिभेदवदेव स्वाभाविका मताः श्रीमतां दिगादिभेदवदीपाधिका वा । नायः काललिङ्गा विशेषादञ्ज सैकत्वसिद्धेस्तेषां स्वपुष्यकल्पत्वादित्याह । स्वत इति । नापि द्वितीय इत्याह । औपाधिकेति । आदिशव्दाचन्द्रगत्यादिसंग्रहः । अथावभासयोग्यं कालोपाधिमाशङ्कते । प्रतिक्षणवर्तिनीति । प्रतिक्षणमन्यान्यैव जायमानेत्यर्थः । अन्यथा तस्या अप्येकत्वे वैयर्थ्यादिति भावः । ननु तस्या अप्यज्ञाताया अनुपाधित्वात् ज्ञानस्य च पुनर्जिज्ञासापूर्व कत्वा जिज्ञासानवस्था स्यादित्याशङ्कयाह । अबुभुत्सितेति । परिहरति । तति । आदी घटज्ञानं पुनर्घटजिज्ञासा ततस्तज्ज्ञानं ततस्तदुपहितकालज्ञानं ततस्तत्काल
४९
D
(१) नवभावनाभाता-पा· पु.
है !!