________________
३०
स्वात्मात्मनेारपि प्रत्यक्षताव्याकोपः स्यादिति कृतं विस्तरेण । अनतिभेदा अप्येते पक्षभेदा मन्दमतीनां विश्वमा माभूदिति पृथगुपन्यस्य निरस्ता इति ।
अनधिगततथाभूतार्थनिश्चायकं प्रमाणमिति मीमांसाचार्याः । यथाहुः ।
म ।
1
भावः । नन्वज्ञानकरणत्वे सत्यनुभूतित्वं तद्भविष्यति तच्चेतरव्यावृत्तमेवेत्याश का ज्ञानकरणानामनुमानादिसंविदां स्मृतेश्चाननुभूतेरात्मस्वात्मांशयोरव्यातिं किं न पश्यसीत्याशयेनाह । कृतमिति । निषेधार्थे ऽव्ययमेतत् । विस्तरेण साध्यं नास्तीत्यर्थः । गम्यमानसाधन क्रियां प्रति करणत्वात् तृतीया । तदुक्तं न्यासोद्योतेन । न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य अपि तु गम्यमाना पीति स्फुटीकृतं चैतदस्माभिः पञ्चकाव्यादिटीकासु अलं महीपाल तव श्रमेणे(१)त्यादौ । ननु विस्तरमनिच्छतो. किमनेनातिविलक्षण बहुपक्षोपन्यासेन दिङ्मात्रप्रदर्शनेनापि सुगमत्वादित्याश च मन्दानुग्रहार्थमित्याह । अनतिभेदा इति । अत्यन्त भेदरहिता अपीत्यर्थः । इतिशब्दः समाप्तौ ॥
तदेवं गुरुमतं निरस्येदानीं परमगुरुमद्यपादमतं निरसितुं तत्सङ्ग्राहक मज्ञातचरेत्यादिश्लेाकमर्थता व्याचष्टे । अनधिगतेत्यादि । तथाभूतोऽन्यथात्वमप्राप्त इत्यर्थः । निश्चायकं निश्चयकरणमित्यर्थः । करणे कर्तृत्वापचारात् ण्वुलूपत्ययः । क्रमात् पदत्रयेण स्मृतिविपर्ययतर्कसंशयानां व्यवच्छेदः । संग्रहस्थापरशब्दार्थ (माह । मीमांसाचार्य इति ।
सर्गे 1
(१) रघुवंशे (२) कारिकास्थस्यापरशब्दस्यार्थम् ।
By