________________
सटीकतार्किकरक्षायाम् ।
स्वविषयभेदग्रहण इति चेत् । न पुत्रादिविषयस्वराद्यनुमाने ऽपि सुवचत्वात् । असाधारणधर्मदर्शनसापेक्षभेदप्रतीतेरप्रत्यक्षता च स्यादिति ।
३८
निर्विकल्पक संविद स्त्रितयव्यवहारानुगुण्याभावेन सप्तमः पक्षोऽपि न कक्षीकार्यः ।
अष्टममपि विकल्पं विकल्पयामः । किं तहमीन्तरमनुमानादिसंविदामस्ति वा न वेति । यदास्ति तासामपि प्रत्यक्षत्व प्रसङः । साक्षात्त्व विशेषणस्य व्यवच्छेद्याभावेन वैयर्थ्यं चापोत । यदि नास्ति तासां तत्राप्यनुमितेरुत्पत्तावेव लिङ्गज्ञानापेक्षा नार्थपरिच्छेद इनि सुवचत्वादित्याह । नेति । अन्याप्तिश्चापरा लगतीत्याह । असाधारणेति । स्थाण्वादिधर्मिविशेषावधारणस्य वक्रकोटरादिविशेषज्ञानापेक्षत्वेन त्वदुक्तलक्षणायोगादित्यर्थः ।
सप्तमस्तु निर्विकल्पक एवाव्यात इत्याह । निर्विकल्पकेति । वेद्यवेदकवित्तिस्फुरणमात्रात्मकं तत्र तहिशेषोल्लेखियवहारानुगुण्यायोगादिति भावः ।
!
अटमस्तु कष्टादपि कष्ट इत्याशयेनाह । अषृममपीति । विकल्पयति । किं तदित्यादि । तस्य स्वरूपं यद्वा तद्वास्तु किं तु तदितराव्यावृत्तं तदितरव्यावृत्तं वा तावदेव ब्रूहीति भावः । अव्यावृत्तिपक्षे ऽतिव्याप्तिरित्याह । यद्यस्तीति । किं चास्मिन् पक्ष साक्षात्प्रतीतिरित्यत्र विशेष्यवद्विशेषणस्यापि सर्वसंवित्साधारणत्वे विशेषणवैयर्थे च स्यादित्याह । साक्षात्वेति । द्वितीये त्वव्याप्तिरित्याह । यदि नास्तीति । व्याकोपो हानिः । तत्रापि तदभावादिति
४४