________________
सटीकता किकरतायाम् ।
रूपं स्वरूपमित्यसाधारणधर्मप्रतीति: (१) तदा पुत्रादिस्वरादनुमाने ऽतिव्याप्तिः (१) न व्याप्नोति च साधारणधर्मदर्शनम् । अथ स्वयमेव रूपं स्वरूपं रूप्यते ऽनेन संविदिति च रूपम् । तेन या स्वरूपेण स्वात्मना वस्तु विषयीकरोति सा साक्षात्प्रतीतिः नैवमनुमानादिरिति चेत् । तर्हि सविकल्पकस्याप्रत्यक्षत्वप्रसङ) । तत्र नामादिरूपेण विषयीकरणात् ।
स्वविषयान्तर्गत प्रतीत्यन्तराव्यवहितत्वं स्वरू
1
त्स्वरदेवेत्याद्यसाधारणधूमानुमाने ष्वतिव्याप्तमित्याह । तदा पुत्रादीति | आदिशब्दाद्रात्रादिसंग्रहः । स्वरादीत्यादिशब्दाद देशभाषादिसंग्रहः । अथ सङ्ख्यादिसाधारणधर्म प्रत्यक्षेष्वव्यातिश्चेत्याह । न व्याप्नोति चेति । चतुर्थमाशङ्कते । अथ स्वयमेवेति । नन्वेकस्यैव कथं धर्मधर्मिभाव इत्याश का रूपशब्दं च निरुक्तिभेदेन धर्मपरत्वेन व्याचष्टे । रूप्यत इति । तथा च रूपमिति निरूपकमित्यर्थः । फलितमाह । तेनेति । स्वरूपशब्दस्य पूर्वोक्तनिरुक्तिसिद्धार्थमाह । स्वात्मनेति । अविशिष्टाकारेणेति यावत् । इत्थम्भावे तृतीया । तथा च यद्वस्तु यथाभूतं तत्तथैवोल्लिखति न तु विशिष्टमित्यर्थः । एतेन नामाद्यविशिष्टसाक्षाद्भूतवस्तुविषयत्वं साक्षात्त्वमिति सिद्धम् । तथा च पूर्वोक्तातिव्यातिर्निरस्तेत्याह । नैवमिति । अनुमानस्य विशिष्टविषयत्वादिति भावः । तर्हि मूले कुठार इत्याह । तहौति ।
1
(१) धर्मभेदप्रतीतिः - पा० पु. (२) अतिव्याप्नोति पा० B. | (३) प्रसक्ति:- पा० Bपु० ।