________________
ान
३५
त्का तद्विषया संवित साक्षादित्य भिधीयते । ततः प्रत्यक्षसमानविषया स्मृतिरपि तथा स्यात् । यदि स्वस्य रूपं स्वरूपमिति जात्यादिधर्मभेदप्रतीतिः । तर्ह्यनुमानादेरपि तथात्वं प्रसज्येत । यदा स्वस्यैव दार्थे यत् स्वरूपमित्यनवधारित षष्ठीसमासाश्रयणात् तन्निष्ठसामान्यादिसाधारणधर्मस्तद्विषयत्वं वा अथवा स्वस्यैव रूपमित्यवधारणात् तन्निष्ठासाधारणधर्मस्तद्विषयत्वं वा स्वमेव रूपमिति सावधारणकर्मधारयाश्रयणान्नामाद्यविशिष्टापरोक्षवस्तुविषयत्वं वा यद्वा स्वरूपशब्दस्य प्रतीत्यन्तरसंस्पर्श निषेधपरत्वमाश्रित्याज्ञातचर साक्षाद्भूतवस्तुविषयत्वं वेति पञ्चधा विकल्प्याद्यमनुवदति । तत्र यदीति । साक्षात्वस्य विषयधर्मतामाह । वस्तुस्वरूपं साक्षादित्युतवेति । सर्वविकल्प शेषं चैनत् । अत्र वस्त्वेव स्वरूपमात्मेति विग्रहार्थः स्वरूपशब्दश्चात्र रूढवृत्तिः । तथा च साक्षाद्भूत पदार्थस्वरूपविषयत्वं (२) साक्षात्स्त्वमित्यर्थः । एतस्प्रत्यक्षानुभवजन्यस्मृतावतिव्याप्तमित्याह । तत इति । द्वितीयमनुवदति । यदि स्वस्येति । आदिशब्दात् संख्यादिसंग्रहः । अत्र प्रतीतेः साक्षाद्भूतवस्तुनिष्ठ साधारणधर्मविषयत्वं साक्षात्वमित्यर्थः । अस्य धूमानुमानादावतिव्यातिरित्याह । तहति । अत्रादिशब्दात् स्मृतेरपि संग्रहः । तृतीयमनुभाषते । यदा स्वस्यैवेति । साक्षाद्भूतवस्तुनिष्ठासाधारणधर्मविषयत्वं साक्षात्त्वमित्यर्थः । इदं तावदयं स्वरो मत्पुत्त्रीयः विशिष्टस्वरत्वात् पूर्वानुभूतैत
पु. 0
(१) साक्षात्प्रतीतिरित्य-पा. C प (२) वस्तुविषयत्व पा. पु० ।
100