________________
म ।
३५
साक्षात्वं नामावान्तरजातिरस्ति । गुणानामवान्तरजात्यनभ्युपगमात् । न च तद्वातिरेकेण साक्षात्त्वमिति किञ्चित् सम्भवति । तथाहि तत् किं प्रतीतेः प्रतीत्यन्तराव्यवहितेन्द्रियजत्वम् (१) १ स्वविषये प्रतीत्यन्तराव्यवहितत्वं वा २ स्वकालाकलितवस्त्ववभासित्वं वा ३ पदार्थ स्वरूपविषयत्वं वा ४ सजातीयविजातीयसमस्त वस्त्वन्तरव्यावृत्तवस्तुस्वरूपविषयत्वं वा ५ वस्त्वन्तरप्रतीति निरपेक्ष स्वगृहीतभेदवशेन दृष्टसमस्तवस्त्वन्तरव्यावृत्तवस्तु व्यवहारोत्पादनशक्तत्वं वा() ६ इदमहं जानामीति त्रितयव्यवहारानुगुणत्वं वा ० किद्विमन्तरं वाद |
णमाह । गुणानामिति । रूपरसादीनां सर्वत्र गोघटादिष्वेकाकाराव मासादेकव्यक्तिकत्वेनावान्तरजात्यभाव इति तेषां समयः । ननु माभूद् गुणानामवान्तरजातिः ज्ञानस्य किमिति नास्तीत्याशड्य तस्यापि गुणत्वादित्याह । गुणस्य सत इति । ज्ञानस्यापि तन्मते सर्वत्रैकत्वादिति भावः । द्वितीये त्वसम्भव इत्याह । न चेति ।
असम्भवमेवाभिव्यक्तुमष्टधा साक्षात्वं विकल्पयति तथाहि तत् किमित्यादिना । यदेतत् प्रतीतेः साक्षात्वं तत् किमिति सर्वविकल्पशेषत्वेन योज्यम् । अनुभवव्यवधानेनेन्द्रियजत्वं स्मृतेरपीति तन्निरासार्थमुक्तं प्रतीत्यन्तराव्यवहितेति । शेषं चोदनाजन्यप्रतीतिनिरासार्थम् । एवं विकल्पान्तरेष्वपि यथायथं विशेषणफलमर्थश्च तत्तन्नि
(१) जन्यत्वम् - पा. C. 1 (2) ¶fmara a1-qı. O g. 1
19