________________
३०
सटीकतार्किकत्तायाम् ।
कैः करणीय इति । एतेन साक्षात्प्रतीतिः प्रत्यक्षमिति तेषां प्रत्यक्षलक्षणमपि निरस्तम् ( ) । यथाहुः । साक्षात्प्रतीतिः प्रत्यक्षं मेयमातृप्रमासु सा । इति ।
न तावत् त्वन्मते गुणस्य सता ज्ञानस्य णिकत्वं स्यादित्यर्थः । विमतः शङ्खः पीतज्ञानगोचरः पीतव्यवहारविषयत्वात् हरिद्रादिवदिति तु प्रमाणमन्यथाख्याता । तदेवं प्राभाकरीयं प्रमाणसामान्यलक्षणं पराणुद्य सम्प्रति तन्मतस्यातिफल्गुत्वप्रकटनार्थमप्रस्तावे - ऽपि तदीयं प्रत्यक्षलक्षणमपि पराणुदति । एतेनेति । सामान्यलक्षणप्रतिक्षेपेणेत्यर्थः । तथाहि साक्षात्प्रतीतिरित्यत्र प्रतीतिशब्देन किं संविन्मात्रमुच्यते अनुभूतिवा । आये भावनाप्रकर्षपर्यन्तजस्मृती साक्षात्कारवत्यामतित्यातिः स्यात् । द्वितीये तु पूर्ववत् (२) स्मार्तयोरात्मस्वात्मांशयाः प्रत्यक्षाभिमतयोरव्याप्तिरिति ॥
अथ लक्षणांशे शालिकासंवादमाह । यथाहुः साक्षात्प्रतीतिरिति । साक्षात्कारिण्यनुभूतिः प्रत्यक्षमित्यर्थः । अन्यथा पूर्वोक्तस्मृतिविशेषे ऽतिव्यापनात् लैङ्गिका दिव्युदासाय साक्षाद्विशेषणं मेयेत्यादि तु विषयप्रदर्शनपरम् । तत्र विशेष्यदूषणमतिदेशग्रन्थे गतमिति साक्षाद्विशेषणं दूषयिष्यन् किमिदं साक्षात्त्वं नाम मुख्यमेव ज्ञानत्वावान्तरसामान्यं वा भूतत्वादिवत् किविदीपाधिकं सामान्यं वेति द्वेधा विकल्प्याचे लक्षणमसम्भवीत्याह । न तावदिति । साक्षात्त्वजात्यभावे कार
(१) परास्तम्- TT. B पु. (२) अनुभूतिः प्रमाणमित्यादिवत् ।