SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [पाद २. सू. १८-२३] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [६७ पुवद्भावार्थम् । ब्राह्मणाः प्रकृता अस्यां यात्रायां 'तयोः समूहवच्च बहुषु' (७-३-३) इति यः प्रत्ययः। ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः,माणव्ययात्रः, वाडव्ययात्रः । ण्ये हि पुंवद्भवो न स्यात् यथा गाणिक्यायात्रः ।१७। न्या० स० गणि०-पुंवद्भावो न स्यादिति 'तद्धितः स्वरवृद्धि' ३-२-५५ इति निषेधात् । केशादा ॥ ६. २.१८॥ केशशब्दात् समूहे ण्यः प्रत्ययो वा भवति । केशानां समूहः कैश्यं कैशिकम्, अचित्तलक्षण इकण् ।१८। वाश्वादीयः ॥ ६. २. १९ ॥ अश्वशब्दात्समूहे ईयः प्रत्ययो वा भवति । अश्वोयम्, आश्वम् ।१९। . पर्धा डवण ॥ ६. २. २०॥ . पशू शब्दात्समहे डवण् प्रत्ययो भवति, इकणोऽपवादः । पशूनां समूहः पार्श्वम् । डित्करणमन्त्यस्वरादिलोपार्थम् ।२०। न्या० स० पश्र्वा इवण्-पाश्र्वास्थिवाचिनः पर्श शब्दादूछ । ईनोऽह्नः क्रतौ ॥ ६. २. २१ ॥ - अहन्शब्दात्समूहे ऋतौ वाच्ये ईनः प्रत्ययो भवति । अह्नां समूहोऽहीनः ऋतुः । ऋताविति किम् ? आमन्यत्, श्वादिपाठादञ् ॥२१॥ पृष्ठाद्यः ।। ६. २. २२ ॥ पृष्ठशब्दात्समूहे ऋतौ वाच्ये यः प्रत्ययो भवति । पृष्ठानां समूहः पृष्ठयः क्रतुः, पृष्ठशब्दोऽहःपर्यायः । रथन्तरादिसामपर्याय इत्यन्ये । क्रतावित्येव? पाष्ठिकम् ।२२। चरणाद्धर्मवत् ॥ ६. २. २३ ॥ चरणं कठकालापादि तस्माद्यथा धर्म प्रत्यया भवन्ति तथा समूहेऽपि । वत्सर्वसादश्यार्थः, तेन यकाभ्यः प्रकृतिभ्यो यः प्रत्ययो यथा धर्मे भवति ताभ्य एव प्रकृतिभ्यः सः एव प्रत्ययस्तथैवेह भवति । यथा कठानां धर्मः काठकम् कालापकम् छान्दोग्यम् औक्थिक्यम् बाढच्यम् आथर्वणम् तथा समूहेऽपि काठकमित्यादि ।२३। ___ न्या० स० चर०-परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थे गमयन्तीत्याहवत्सर्वसादृश्यार्थ इति । औक्थिक्यमिति उक्थमधीते केचिदूक्थिक्यस्यापीति अक्थिक्यं वाधीते 'याज्ञिकौक्थिक' ६-२-१२२ इति इकणन्तो निपातः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy