________________
बृहदुवृत्ति-लघुन्याससंवलिते [पाद. २. सू. १३-१७ ] औपगवानां समूह औपगवकम् , कापटवकम् , गार्गकम् , वात्सकम् , गाायणकम् , वात्स्यायनकम्, उक्षन् औक्षकम्, वत्स वात्सकम्, उष्ट्र औष्ट्रकम, वृद्ध वार्धकम्, अज आजकम्, उरभ्र औरभ्रकम्, मनुष्य मानुष्यकम्, राजन् राजकम्, राजन्य राजन्यकम्, राजपुत्र राजपुत्रकम् ।१२।
न्या० स० गोत्र०-मनुष्यगजन्यशब्दौ औणादिको इति पृथगुपादानम् , अण्प्रत्ययान्तयोस्तु गोत्रद्वारेण सिद्धम् । केदारापण्यश्च ॥ ६. २. १३ ॥
केदारशब्दासमहेऽर्थे ण्योऽकञ् च प्रत्ययौ भवतः, अचित्तेकणोऽपवादः । कैदार्यम्, केदारकम् ।१३। कवचिहस्त्यचित्ताचेकण् ॥ ६. २. १४ ॥
कवचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यः केदाराच्च समूहे इकण् प्रत्ययो भवति । कवचान्येषां सन्तीति कवचिनः, तेषां समूहः कायचिकम्, हस्तिनां लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहः हास्तिकम्, अचिचात्, आपूपिकम्, शाकुलिकम्, केदारात् कैदारिकम्, एवं केदारस्य त्रैरूप्यं भवति । ण्याकउभ्यां बाधा माभूदिति केदारात् इकविधानम् ।१४। ___ न्या० स० कव०-इकविधानमिति अन्यथा अचित्तद्वारा सिध्यतीत्याशझ्याह । धेनोरनञः ॥६. २. १५॥
धेनुशब्दात्समूहे इकण् प्रत्ययो भवति न चेत् स धेनुशब्दो नञः परो भवति । धेनुनां समूहो धेनुकम् अनञ इति किम् ? अधेनूनां समूह आधैनवम्, उत्सादित्वादन । 'धेनोरनत्रः' (६-१-१५) इति प्रतिषेधो लिङ्गम् समूहे तदन्तस्यापि भवतीति, तेन क्षौद्रकमालवकम् ब्राह्मणराजन्यकम् वानरहस्तिकम् गौधेनुकम् ।१५।
न्या० स० धेनो०-आधैनवमिति 'बष्कयादसमासे' ६-१-२० इत्यत्रासमासवचनादुत्साद्य तदन्तादपि, अनुशतिकादीनामुभयपदवृद्धिः ।
ब्राह्मणराजन्यकमिति 'न राजन्यमनुष्ययोः' ६-२-३३ इति यलोपाभावः । ब्राह्मणमाणववाडवाद्यः ॥ ६. २. १६ ।।
ब्राह्मणमाणववाडव इत्येतेभ्यः समूहे यः प्रत्ययो भवति । ब्राह्मण्यम, माणव्यम्, वाडव्यम् ।१६। गणिकाया ण्यः ॥ ६. २. १७॥ गणिकाशब्दात्समूहे ण्यः प्रत्ययो भवति। गाणिक्यम्, ब्राह्मणादीनां यविधानं