________________
५६ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. १ सू० १३५ गार्ग्ययोर्वा कुलं गर्गकुलम्, गार्म्यंकुलम्, एवं बिदकुलम्, बैदकुलम् अगस्तिकुलम्, भागस्त्यकुलम्, भृगुकुलम्, भार्गवकुलम् । द्वयेकेष्विति किम् ? गर्गाणां कुलम् गर्गकुलम् । षष्ठया इति किम् ? मार्ग्यहितम्, परमगार्ग्यः । षष्ठया इति तत्पुरुषस्य विशेषणेन प्रतिपदोक्तस्यैव षष्ठीतत्पुरुषस्य परिग्रहादिह न भवति, गार्गस्य गार्ग्ययोर्वान्तर्गतः अन्तर्गार्ग्यः । ' प्रात्यव ' - ( ३-१-४७ ) इत्यादिना समासः । केष्वित्यस्य षष्ठया इति विशेषणं किम् । देवदत्तस्य मार्ग्यः देवदत्तगार्ग्यः, देवदत्तगायौं । तत्पुरुष इति किम् ? गार्ग्यस्य समीप - मुपगार्ग्यम् । यजादेरिति किम् ? आङ्गकुलम्, यास्ककुलम् ।१३४।
I
न्या० स० दूव्येके - प्रात्यवेत्यादिना समास इति बाहुलकात् षष्ठ्यन्तेन समासः, यतस्तत्र पञ्चम्यन्तान्तैरेव समास उक्तः ।
न प्राग्जितीये स्वरे ॥ ६. १. १३५ ॥
गोत्र इति वर्तते, गोत्रे उत्पन्नस्य बहुषु या लुबुक्ता सा प्राजितीयेऽर्थे यो विधीयते स्वरादिस्तद्धितस्तस्मिन् विषयभूते न भवति । गर्गाणां छात्रा : गार्गीयाः, वात्सीयाः, आत्रेयीया:, आगस्तीयाः, खारपायणीयाः, हारितीया: । प्राजितीये इति किम् ? अत्रिभ्यो हितः अत्रीयः, अगस्तीयः, गर्गीयः, वत्सीयः । स्वर इति किम् ? गर्गेभ्य आगतं गमयम्, गर्गरूप्यम्, बिदानामपत्यं युवा बैद:, मैदावित्यत्र तु इञि विषयभूतेऽनेन प्रतिषेधः । इञस्तु लुपि सत्यामनन्तं न बहुषु वर्तते इति लुपः प्राप्तिरेव नास्ति । यत्र त्वस्ति तत्र भवत्येव, बिदानामपत्यानि बिदा: । अथेह कस्मान्न भवति अत्रीणां भरद्वाजानां च विवाहः अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिकिकेति ? उच्यते, प्रत्यासत्तेर्यस्य प्रत्ययस्य लुप् प्रतिषिध्यते तल्लोपिप्रत्ययान्तादेव विधीयमाने स्वरादी प्रतिषेधः अत्र द्वन्द्वाद्विधीयते न तल्लोपिप्रत्ययान्तादिति प्रतिषेधो न भवति । ' गर्गभार्गविका' ( ६- १ - १३६ ) इत्युत्तरसूत्रं वा नियमार्थं व्याख्यायते । गर्म भार्गविकाया अन्यत्र द्वन्द्वे वृद्धे यूनि वा प्रतिषेधो न भवति । गोत्र इत्येव ? कुवल्याः फलं कुवलम्, तस्येदं कौवलम् ॥१३५ । न्या० स० न प्रागू-गार्गीया इति ननु गार्गीया इत्यादौ विषयव्याख्यानादुत्पन्ने प्रत्यये पश्चाल्लोपः कथं न भवति ?
उच्यते, विषयव्याख्यानेन त्रैकाल्यमपि गृह्यते, तेन यो वर्तते, यो भूतो यश्च भावी तस्मिन् सर्वस्मिन् न लोपो भवतीत्यर्थः ।
तल्लो पिप्रत्ययान्तादिति - स लोपी प्रत्ययोऽन्ते यस्य तस्मादित्यर्थः ।