________________
[ पाद १. सू० १३३-१३४] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [५५ अङ्गवङ्गसुह्माः, अत्र द्विस्वरलक्षणस्याणः, एवं गर्गवत्सवाजाः। अत्र यत्रः, बिदगर्गयस्काः । अत्रानो योऽणश्च । तथेति किम् ? यास्कलाह्याश्छात्राः । अत्र 'तस्येदम्' (६-३-१५९) इत्यणो लुप् न भवति 'यस्कादेर्गोत्रे' (६-१-१२५ ) इत्यत्र गोत्रे उत्पन्नस्येति प्रत्ययस्य विशेषणात् । गार्गीवत्सवाजाः, अत्र वत्सवाज योरेव यजो लुप् न गार्गी इत्यत्र तत्रास्त्रियामिति प्रतिषेधात्, शैग्रवगौपवनाः । अत्र 'अश्यापर्णान्तगोपवनादेः' इति प्रतिषेधात् अञो लुप् न भवति । बालाकिहास्तिदासयः, अत्र प्राग्भरतेति वचनात् अप्राग्भरते न भवति । यादिग्रहणमगोत्रेऽपि यथा स्यादित्येवमर्थम् अबह्वथं वचनम् ।१३२॥
न्या० स० द्यादेःतथा-धादिप्रत्ययान्तानामिति 'बहुध्वस्त्रियामित्यारभ्य ये केचन लोपनीयाः प्रत्ययास्ते द्यादयो ज्ञेयाः, 'तरवणः' ६-१-१२३ इत्यनेन तु एकत्वद्वित्वबहुत्वसामान्वे लुबुक्तानेनापि तथैवेति न तत्रास्य कश्चिदुपयोगोऽतो 'बहुष्वस्त्रियाम्' ६-१-१२४ इत्यारभ्योदाहियते ।
यथापूर्वमित्ति-पूर्वप्रत्ययान्तबहुत्वे यस्य लुब् भवति, द्वन्द्वे बहुत्वेऽपि तस्यैव भवति, अस्व न भवति, तस्य च भक्त्येव, यस्यादेशेन सह तस्यादेशेन सहेव यस्य विकल्पस्तस्य विकल्प एवेत्यर्थः ।
यादिप्रहणमगोपीति ननु तथेति भणनाद्येषां पूर्व बहुषु लुबुक्ता तेषामेव भविष्यति किं यादिग्रहणेन ? इत्याह-अयमर्थः, यदि न्यादिग्रहण न क्रियेत्त तदा 'यस्कादेर्गोत्रे' ६-१-१२२ इत्यतो गोत्र इत्यनुवर्तमाने गोत्र एष लुपू स्यात् यथा अङ्गबङ्गसुम्हा इति नागोत्रे यथा वृकलोहध्वजकुण्डीवृशा इति । वान्येन ॥ ६. १. १३३ ॥
द्यादेरन्येन सह द्यादीनां द्वन्द्वे बहुष्वर्थेषु वर्तमाने य स यादिप्रत्ययस्तस्य तथा वा लुप् भवति यथा पूर्वम् । अङ्गवङ्गदाक्षयः, आङ्गवाङ्गादाक्षयः, गर्गवत्सौपगवाः, गाय॑वात्स्योपगवाः, भृगुवत्साग्रायणाः, भाववात्स्याग्रायणाः, गर्गकश्यपगालवाः, गार्यकाश्यपगालवाः, पूर्वेण नित्ये प्राप्ते विकल्पा) वचनम् ।१३३३
मा० स० वान्ये विकल्पार्थमिति पूर्वेण 'यादेः' ६-१-१३२ इति सामान्यभणनादत्रापि सिद्धे यत्रान्येन सह द्वन्द्वः तत्रानेन विकल्प एवेत्यर्थः ।। धेकेषु षष्ठयास्तत्पुरुषे यत्रादेर्वा ॥ १. १. १३४ ॥
षष्ठीतत्पुरुष यत्पदं तस्याः षष्ठया विषये द्वयोरेकस्मिंश्च वर्तते तस्य यः स यादिः प्रत्ययस्तस्य तथा वा लुक् भवति यथा पूर्वम् । गार्ग्यस्य