SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [ पाद. १. सू. ११७-११८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [४५ राजन्यपत्ये च इञ् प्रत्ययो भवति स च द्रिसंज्ञः । उदुम्बराणां राजा उदुम्बरस्यापत्यं वा औदुम्बरिः, उदुम्बराः, एवं तैलखलिः, तिलखलाः, माद्रकारिः, मद्रकारा, यौगन्धरिः, युगन्धराः, भौलिङ्गिः, भुलिङ्गाः, शारदण्डिः, शरदण्डाः, आजमी ढिः अजमीढाः, आजकुन्दिः, अजकुन्दाः, बौधिः, बुधाः इति साल्वांशाः । प्रात्यग्रथिः, प्रत्यग्रथाः, कालकूटिः, कलकूटाः, आश्मकिः अश्मकाः, सर्वत्र बहुषु लुप् । उदुम्बरास्तिलखला मद्रकारा युगंधराः ।। भुलिङ्गाः शर दण्डाश्च साल्वांशा इति कीर्तिताः ।।१।। अजमोढाजकुन्दबुधास्तूदुम्बरादिविशेषाः, तेऽपि साल्वांशा एव । प्रत्य ग्रथादिग्रहणमसाल्वांशार्थम् । ११७॥ न्या० स० साल्वां-उदुम्बरा इति उन्दन्ति आर्दीभवन्ति ऋद्ध्या 'तीवर' ४४४ (उणादि) इति, यद्वा उल्लविताम्बराः प्रासादैः ‘पृषोदर' ३-२-१५५ इत्यादिना निपातः । तिलखला इति तिला एव खला यज प्रचुरत्वात् , तिला: खल्यन्ते यत्र 'गोचर' ५-३-१३१ इति निपातः, तिलैः खलन्ति संचिता भवन्ति वा । मद्रकारा इति मद्रं कुर्वन्ति 'क्षेमप्रिय' ५-१-१०५ इति अण, युगं धारयति 'धारेर्धर्च' ५-१-११३ खः। भुलिङ्गा इति लभेरिदुतौ चातः। शरदण्डा इति शरैः दण्डयन्ति । अजमीढा इति अजैमिह्यन्ते स्म क्तः ‘कारक कृता' ३-१-६८ सः। अजगुदा इति अजा एक गुदा यत्र । बौधिरिति बुध्यन्ते इति 'नाम्युपान्त्य' ५-१-५४ इति कः । प्रात्यप्रथिरिति-प्रत्ययः रथो यस्य । कालकूटिरिति कूटयन्ति अच् , कल्पप्रधानाः कूटाः, आश्मकिरिति अश्मनः कायन्ति 'आतो ड' ५-१-७६ इति ङ । तेऽपि साल्वांशा एवेति अवयवावयत्रोप्यवयविनोऽवयव एव । दुनादिकुर्विकोशलाजादा ज्यः ॥ ६. १. ११८॥ दुसंज्ञकेभ्यो नकारादिभ्यः कुरुशब्दादिकारान्तेभ्यः कोशल अजाद इत्येताभ्यां च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च ज्यः प्रत्ययो भवति स च द्रिसंज्ञः । दुष्ठा, आम्बष्ठानां राजा आम्बष्ठस्यापत्यं वा आम्बष्ठयः, आम्बष्ठाः, सौवीराणां सौवीरस्य वा सौवीर्यः, सौवीराः, एवं काम्बव्यः, काम्बवाः, दाwः, दाः । द्विस्वरलक्षणोऽण परत्वादनेन बाध्यते । नादि, निषधानां निषधस्य वा नैषध्यः, निषधाः, नेचक्यः, निचकाः, नैप्यः, नीपाः, कुरूणां कुरोर्वा कौरव्यः, कुरवः, इत्, अवन्तीनामवन्तेर्वा आवन्त्यः, अवन्तयः, कौन्त्यः, कुन्तयः, वासात्यः, वसातयः, चैद्यः, चेदयः, काश्यः, काशयः, कोशलानां कोशलस्य वा कौशल्यः, कोशलाः, अजादानामजादस्य वा आजाधः, अजादाः एभ्य इति किम् ? कुमारी नाम जनपदः क्षत्रिया च ततो राजन्यपत्ये वाद्येव भवति, कौमारः ।११८१
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy