SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४४] बृहदृत्ति-लघुन्याससंवलिते पा० १. सू० ११६-११७ ] ज्यस्यापवादः, वचनभेदो यथासंख्यनिवृत्त्यर्थः, गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं च गान्धारः, गान्धारी, गान्धारयः, बहुष्वजो लुप । एवं साल्वेयः, साल्वेयौ, साल्वेयाः। एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायामब्राह्मणादिति लुप् न भवति विधानसामर्थ्यात् । अन्यथा ज्य विधावेवानयोः प्रतिषेधः क्रियेत । तथा पूर्वेणैवाञ् सिध्यति । ५। न्या० स० गान्धारि-इत्रेयणन्तौ सरूपाविति गन्धमियति अण, तस्यापत्यमिञ्, साल्वाया अपत्यं, 'द्विस्वरादनद्याः' ६-१-७१ अपत्यप्रत्ययान्तावप्युपचाराद् राष्ट्रे वर्तते । विधानसामर्थ्यादिति ननु गान्धार इत्यत्र लुबभावे फलमस्ति यतो लुप्ते गान्धारिरिति स्यात् , स्थिते तु गान्धारः साल्वेय इत्यत्र तु किं फलम् ? उच्यते, अत्रालुपि संघादिविवक्षायामण लुपि तु 'गोत्राददण्ड' ६-३-१६९ इत्यकञ् स्यात् । ननु दुलक्षणञ्यस्य बाधनेन विधानामिदं चरितार्थमिति कुतो विधानसामर्थ्यादित्युक्तम् ? इत्याह-अन्यथा ज्यविधाविति । अगान्धारिसाल्वेयदुनादिकुर्वित्कोशलाजादाब्य इत्यनया युक्त्या प्रतिषेधे कृते राष्ट्रक्षत्रियादित्यनेनाञ् भविष्यतीत्यर्थः। पुरुमगधकलिङ्गशूरमसदिस्वरादण् ॥ ६. १. ११६ ।। पुरुमगधकलिङ्गशूरमस इत्येतेभ्यो द्विस्वरेभ्यश्च शब्देभ्यो राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्य पत्ये चार्थे दिरण भवति, अनोऽपवादः । पुरोरपत्यं पौरवः, पौरवौः, पुरवः, मगधानां राजा मगधस्यापत्यं वा मागधः, मागधी, मगधाः, एवं कालिङ्गः, कालिङ्गो, कलिङ्गाः, शौरमस: शौरमसौ, शूरमसाः, द्विस्वर, अङ्गानां राजा अङ्गस्यापत्यं वा. आङ्गः, अङ्गाः, वाङ्गः, वङ्गाः, सौह्मः, सुह्माः, पौण्ड्रः, पुण्ड्राः, दारदः, दरदः, भार्गः भर्गाः, साल्वः, साल्वाः । सर्वत्र बहुषु लुप्, पुरुग्रहण मराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम न तु राष्ट्रम्, तस्योत्सर्गिकेणैवाणा सिद्धे बहषु लबर्थमिदमणविधानम् । अव सिद्धेऽविधानं संघाद्यण बाधनार्थम् । तेनाका भवति, पौरवकम् मागधकम्, कालिङ्गकम्, शौरमसकम्, आङ्गकम्, वाङ्गकम्। अअन्ताद्धि गोत्रात् 'अञ्य निञः' (६-३-१७२) इत्यण् बाधकः स्यात् । ११६। न्या० स० पुरु-पौरवकमिति पुरोरपत्यानि अण् लुप्, पुरूणां संघादि 'गोत्राददण्ड' ६-३-१६९ इत्यकाविषये 'न प्राजितीये' ६-१-१३५ इति अणो लुप् निवर्तते । साल्वांशप्रत्यग्रथकलकूटाश्मकादि ॥ ६. १. ११७॥ साल्वा नाम जनपदस्तदंशास्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथकल. कटाश्मक इत्येतेभ्यश्च राष्ट्रवाचिभ्यः क्षस्त्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy