________________
३०]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ६८-७१ ] ___देव्याषिति ननु सुपर्णाविनताशब्दयोरेक एव शब्दार्थस्तत्कथं देव्याविति द्विवचनम् ! उच्यते, शब्दभेदादर्थभेदो भवतीत्याश्रयणात् । पीलासाल्वामण्डूकादा ॥ ६. १. ६८॥
पीलासाल्वामण्डूकशब्देभ्योऽपत्येऽण् प्रत्ययो वा भवति । पैलः, पैलेयः, साल्वः, साल्वेयः, माण्डकः, माण्डूकिः । पीलासाल्वाभ्यां द्विस्वरयणि मण्डकादिषि प्राप्ते वचनम्, वाग्रहणं मण्डूकस्य इमर्थम् ॥६८॥ ____ न्या० स० पीलासाल्वा-इअर्थमिति अन्यथा वाग्रहण बिनापि गुत्तरेण चानुकृष्टेभ्य एभ्यस्त्रिभ्योऽप्येयण, अनेन त्वः भवति, मण्डूकातु कथमपी न स्यादिति । दितेश्चैयण वा ॥ ६. १. ६९ ॥
दितिशब्दान्मण्डकशब्दाच ङसन्तादपत्ये एयण वा भवति । दैतेयः, दैत्यः, माण्डकेयः, माण्डुकिः, चकारो मण्डकार्थः। पीलासाल्वाभ्यां ह्यविकल्पादेव एयण सिद्धः । मण्डूके रूप्यं सिदमेव । वाग्रहणं दितेार्थम् । ' इतोऽनिमः' (६-१-७२) इत्येव दितेरेयणि सिद्ध 'अनिदम्यणपवाद च'-(६-१-१५) इत्यनेन तस्य बाधायां प्रतिप्रसवार्थं वचनम् ॥६९॥
न्या० स० दिते-एयण सिद्ध इति 'द्विग्पादनद्याः' ६-१-७१ इत्यनेन । मण्डूके त्रैरूप्यमिति अत्र वाग्रहणं विनापि पूर्वसूत्रे वाग्रहणेन मण्डूकेऽणित्रोः सिद्धत्वात् , अनेन च एयणविधानात त्रैरूप्यं सिद्धमित्यर्थः।
यापत्यूङः ॥ ६. १. ७०॥
ड्यन्तादावन्तात्त्यन्तादूङन्ताच्चापत्ये एयण् प्रत्ययो भवति । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥७॥
न्या० स० क्याप्त्यूल-यौवतेय इति एयेऽग्नाप्येवेति नियमात पुंवत्त्वाभावात्तेर्न निवृत्तिः । कामण्डलेय इति देवीवचनोऽत्र कमण्डलूशब्दः, मानुषीय वनात्तु 'अदोनदी' ६-१-६७ इत्यण् चतुष्पादवचनात्त्वेयम् स्यात् , 'अकदुपाण्ड्वोः ' ७-४-६९ इति उवर्णस्य लुक् ।। द्विस्वरादनद्याः ॥६.१.७१ ॥
द्विस्वरात् ङ्याप्त्यूमन्तादनदीवाचिनोऽपत्ये एयण प्रत्ययो भवति । दात्तेयः, गौप्तेयः । अनद्या इति किम् ? सोताया अपत्यं संतः, संध्यायाः सान्ध्यः, वेण्णाया वैण्णः, सिप्रायाः सैप्रः, रेवायाः रैवः, शुदायाः शोखः, कुलायाः कौलः, मह्या माहः, सीतादयो नखः । अदोर्नदीमानुषीनाम्नोऽपवादो योगः ॥७१॥
न्या० स० द्विस्व०- दातेय इति क्याप्त्यूने बाधकस्य 'अदोनदी' ६-१-६७ इत्यणो बाधकोऽनेनैयण ।