________________
२२]
बृहबृत्ति-लघुन्याससंवलिते [पाद. १. सू. ४४-४७ ] वोऽन्यः । बभ्रोमर्गादिपाठाद्यषि सिद्धे कोशिके नियमार्थं वचनम् । गर्गादिपाठस्तु लोहितादिकार्यार्थः तेन बाभ्रव्यायणीति नित्यं डायन् । केचित्तु अकौशिकेऽपि लोहितादिपाठाद्यबमिच्छन्ति, तन्मतेनेदं यज्विधानं बभ्रोलोहितादेबहिष्करणार्थम्, तेन कौशिके यषि सति लोहितादिकार्य न भवति, तथा च स्त्रियां डायन् वा भवति । बाभ्रवी बाभ्रव्यायणी च कौशिकी ॥४३॥ कपिबोधादाङ्गिरसे ॥ ६.१. ४४ ॥
कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे वृद्धे यम् प्रत्ययो भवति । कपेरपत्यं वृद्धमाङ्गिरसः काप्यः, एवं बौध्यः, अन्य कापेयः, बौधिः, कपिशब्दो गर्गादिषु पठ्यते तस्येहोपादानं नियमार्थम् । आरिस एव यम् नान्यत्रेति । . लोहितादिकार्यार्थश्च गणपाठः । काप्यायनी, मधुबोधयोस्तु यबन्तयोरुभयम् । माधवी, माधव्यायनी, बौधी, बौध्यायनी ॥४४॥
न्या० स० कपि-यान्तयोरुभयमिति ‘यबो डायन च वा' २-४-६७ इत्यनेन विकल्प इत्यर्थः।
वतण्डात् ॥ ६. १. ४५॥
वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे यमेव भवति । वतण्डस्यापत्यं वृद्धमाङ्गिरसः वातण्डयः । आङ्गिरसादन्यत्र गर्गादिशिवादिपाठद्यञ् अण् च भवतः । वातण्डयः, वातण्डः । गर्गादिपाठादेव यषि सिद्ध वचनमागिरसे शिवाचणबाधनार्थम् । शिवादिपाठोऽप्यस्य वृद्ध एवाविधानार्थः । अन्यत्र हि ऋषित्वादेव अण् सिद्धः ॥४॥
न्या० स०-वतण्डा-शिवादिपाठोऽप्यस्येति ननु यः शिवादौ अण् सोऽपत्यमाने विहितो गर्गादौ तु यञ् वृद्धापत्ये तस्माद् विशेषविधानादेव आङ्गिरसेऽन्यत्रापि च यसिद्धौ किमर्थ सूत्रम् ! इत्याशङ्का भण् सिद्ध इति-अनन्तरे बाहादित्वादि प्राप्नोति इति न वाच्यं, शिवादेश्च प्रागिति वचनस्य गर्गादिगणापेक्षया तु बाहादिभ्य इति बहुवचनस्याऽतन्त्रत्वात् । स्त्रियां लुप् ॥ ६. १. ४६ ॥
वतण्डाशब्दादागिरसेऽपत्यविशेषे वृद्धे स्त्रियां यत्रो लब भवति, वतण्डस्यापत्यं वृद्धं स्त्री आङ्गिरसी वतण्डी, जातिलक्षणो डीः। अनाङ्गिरसे तु शिवादिपाठात् वातण्डी, लोहितादिपाठाद्वातण्ड्यायनी ॥४६॥ कुआदेायन्यः ॥ ६. १. ४७॥
कुन्जादिभ्यो असन्तेभ्यो वृद्धेऽपत्येऽर्थे प्रायन्यः प्रत्ययो भवति । कुञ्जस्यापत्यं वृद्ध कोजायन्य:, कोजायन्यो ब्राध्नायन्यः, बाध्नायन्यौ। वृद्ध