SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 34 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने आकर्षफले च प्रतिपदपाठान्नपुसकत्वम्, जङगलः जङगलं मांसं, जङगलो निर्जले देशे त्रिलिङ गः पिशितेऽस्त्रियां. सत्वः सत्वं जन्तुः, जन्तुविशेषोऽपि जन्तुः तेन पिशाचादावपि पुनपुसकत्वं उपलक्षणत्वाद् गुणप्राणयोरपि, अन्यत्र तु क्लीबः ।। ६ ॥ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे, तथा सूतककूलको ॥ ७ ॥ सुरायां मृद्विकामद्ये तनौ च वाच्यायां मधुपिण्डशब्दी पुनपुसको, अयं मधुः इदं मधु सुरा। अयं पिण्डः इदं पिण्डः तनुः, शेवालमध्ययोर्नामपुनपुसकम्, शेवालः शेवालम्, शेवलः शेवलमित्यादि। मध्यः, मध्यं मध्यमः:, मध्यमं अवलग्नः अवलग्नं. विलग्नः विलग्नं इत्यादि। रात्र इति कृतसमासान्तो रात्रिशब्दो गृह्यते स एकशब्दात्परः पुनपुसकः । असमाहारार्थं वचनं एका चासो रात्रिश्च एकराजः एकरात्रः एकरावं, समाहारे द्विगुसमाहारो द्वद्वसमाहारश्च गृह्यते, तस्मिन् वर्तमानो यो रात्रशब्दः स पुनपुसकः, द्वे रात्री समाहृते द्विरात्रः द्विरात्रम्, एवं त्रिरात्रः त्रिरात्रमित्यादि, द्वंद्वसमाहारे अहश्च रात्रिश्च अहोरात्रः अहोरात्रम्। समाहार इति किम् ? पूर्वो रात्रेरंशः पूर्वरात्रः । अथ कान्ताः १६-सूतकः सूतकं पारद, कूलकः कूलकं स्तूपः ।। ७ ।। वैनीतकभ्रमरको मरको वलीक वल्मीकवल्कपुलकाःफरकव्यलीको । किंजल्ककल्कमरिणकस्तबकावितङ्क वर्चस्कचूचुकतडाकतटाकतङ्काः ।। ८ ॥ वैनीतकः वैनीतक परंपरावाह्य याप्ययानादि, भ्रमरकः भ्रमरकं ललाटस्थोऽलकः । मरकः मरकं बहुप्राणिमरणं, वलीकः वलीक नोव्र, वल्मीकः वल्मीकं पिपीलिकादिकृतो मृतसंचयः, वल्कः वल्कं तरुत्वक, पूलकः पूलक रोमाञ्चः, फरकः फरक खेटकः, रलयोरक्येन फलकमपि। व्यलीकः व्यलीकमप्रियमकार्य च, किजल्कः किल्क केसरम्, कल्क: कल्कं कषायः, तिलादेः खलश्च, मणिकः मणिकमलिञ्जरः, स्तबकः स्तबकं गुच्छकः, वितङ्कः वितङ्कम् आरोग्य, वर्चस्क: वर्चस्कमवस्करः, चू चुक: चूचुकं कुचाग्रं, तडाकः तडाक सरः, तटाकः तटाकं तदेव अर्थप्राधान्यात्तडागोऽपि, तङ्कः तङ्कम् अातङ्कः ।। ८ ।। बालकः फलकमालकालका, मूलकस्तिलकपकपातकाः । कोरकः करककन्दुकान, दुकानोकनिष्कचपका विशेषकः ॥ ६ ॥ बालक: २ परिहार्यमङ गुलीयकं च, फलक: फलं खेटकं । तदन्तत्वात्, शालिफलकोऽपि अष्टापदः, मालक: मालकं ग्रामान्तराटवी, अलकः अलकं चूर्णकुन्तलः, मूलकः मूलकं शाकविशेष:, तिलक: तिलकं पूण्ड, पङ्कः पङ्ग कर्दम: पापंच, पातकः पातकं पापं,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy