SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 22 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पुरं सद्माङगयोश्छत्र शीर्षयोः पुण्डरीकके । मधु द्रवे ध्र वं शश्वत्तर्कयोः खपुरं घटे ॥ ५ ॥ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कट । असे द्वन्द्व स्थले धन्वारिष्टमद्रुमपक्षिरणोः ॥ ६ ॥ सद्मनि अङगे च पुरं क्लीबं, नगरे तु त्रिलिङ गः । पुण्डरीकं कं च क्रमेण छत्त्रे शीर्षे च, द्रवति वस्तुनि मधु क्लीबं, मधु मकरन्दः, शश्वन्नित्ये त ऊहे चर्के ध्र वं अन्यत्र तु यथाप्राप्तम् । खपुरं घटे वाच्ये क्लीबम् । अयूपादिष्वर्थेषु यथासंख्यं युगादिष्टकटुशब्दाः क्लीबाः, युगं युग्मं कृतादि च, यूपे तु पुनपुसकं, गोगोयुगं इत्यादौ तु गोयुगप्रत्ययान्तादेव सिद्धं । दिष्टं देवं, काले तु पुसि, कटु अकार्य दूषणं च, समासादन्यत्र द्वन्द्व क्लोब, द्वन्द्व युग्मं अर्थप्राधान्याद् द्वन्द्वमपि, धन्वन् शब्दः स्थले क्लीबः । मरौ तु पुनपुसकः, द्रुमं च पक्षिणं च वर्जयित्वाऽरिष्ट क्लीबं, अरिष्टं सूतिकागृहं, मरणं, अशुभम् ।। ५-६ ।। धर्म दानादिके तुल्यभागेऽधं ब्राह्मणं श्रुतौ। न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ७ ॥ दानादिके पुण्यस्योपाये धर्मः क्लीबः, तानि धर्माणि प्रथमान्यासन्, पुण्ये तु मान्तत्वात् पुस्त्वं, स्वभावे तु पुनपुसकः। समेंऽशे वाच्येऽर्धशब्दः, अर्धं पिप्पल्याः अर्ध- . पिप्पली, अतुल्ये भागे तु पुस्त्वं, केचिदाश्रयलिङ गतामाहुः. श्रुतौ वेदविषये ब्राह्मणं नपुसकं, न्यायादनपेतं न्याय्यं तस्मिन् वाच्ये सारशब्दः बलादौ तु पुस्त्वं, इभबिन्दौ वाच्ये पद्म नपुसकं अन्यत्र तु यथाप्राप्तं। अनुज्ञायां कामं क्लीबं, अयमव्ययमप्यस्ति ।। ७ ॥ खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे पथः संख्याव्ययोत्तरः ॥ ८ ॥ __ भुवि वाच्यायां क्लीबं खलं, पिण्याके दुर्जने च पुनपुसकः स्थाने तु त्रिलिङ गः । सुवेध्ये वाच्ये लक्षं व्याजे तु पुनपुसकः, संख्यायां तु पुस्त्री, शोभनवाचिदिनशब्दादेकशब्दाच्च परो अह इति कृतसमासान्तोऽहन् शब्दः क्लीबः। भूम इति कृतसमासान्तो भूमिशब्दः संख्याया अन्येभ्यः परः एकार्थे कर्मधारये वर्तमानः क्लोबः, पाण्डुर्भूमिः पाण्डुभूमम् एवमुदग्भूम, कृष्णभूमम् । असंख्यात इति किम् ? द्वयोर्भूम्योः समाहारः द्विभूमं, 'अन्यस्तु सर्वो नपुसकः' इति नपुसकत्वम् । ननु चेत् संख्यापूर्वस्यापि क्लीबत्वं तर्हि निषेधोऽनर्थकः ? नैवं, द्वयोभूम्योः क्रीत इति कृतसमासान्तादिकणि तस्य लुपि क्लीबत्वं पाश्रयलिङ गता चेष्यते, एतच्च विशिष्टं व्यावृत्तेः फलं, संख्यावाचिनोऽव्ययाच्च परः कृतसमासान्तोऽयं पथिन्शब्दः पथशब्दो वा क्लीबे, द्वयोः पन्थाः द्विपथं, द्वयवयवो वायम् ।।८।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy