SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ [पाद. १. सू. ४१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, कीदर्भ, विश्वानर, ऋष्टिषेण, ऋतभाग, हर्यश्व, प्रियक, पियक अपस्तम्भ, कुवाचार, कूवाचर, शरद्वत्, शुनक, धेनु । उत्सादिष्वपि धेनुशब्दः पठ्यते । स प्रत्यग्रप्रसवगव्यादिवाचकः, अयमषिवचनः । अश्व शङ्ख, गोपवन, शिग्रु, विन्दु, ताजम, अश्वावतान, श्यामाक, श्यापर्ण, हरित, किन्दास, वस्यस्क, अर्कलुश, वध्योग, विष्णुवृद्ध, वृष्णिवृद्ध, प्रतिबोध, रथीतर, रथंतर, गविष्ठिर, गविष्ठिल, निषाद, शबर, मठर, सृदाकु, पृदाकु । केचिदेतो हरितादेः प्राक् पठन्ति । तन्मते 'हरितादेरबः' (६-१-५५) इत्यायनण् न भवति । मठरशब्दं गोपवनादावपि अबो लुबभावार्थ केचित्पठन्ति । अन्ये तु मठराधकारादिमनमिच्छन्ति । माठर्यः, माठयौं । बहुष्वजो लुपि संनियोगशिष्टत्वात् यस्यापि निवृत्तिरिति मठराः ॥४१॥ न्या० स० बिदा-सप्तमः काश्यपानामिति अत्र कश्यपसंतानापेक्षया बहुवचनं न तु भ्रावर्गापेक्षया, अथ गणः, विन्दत्यवयवी-भवति स्वगोत्रे ‘विन्देनलुकच' ६ ( उणादि ) इति अः बिदः, उर्वति अष्टप्रकारं कर्म उर्वः, कशामर्हति कश्यः, अनया व्युत्पत्त्या पुरुष एव लभ्यते न मद्य, न पुरुषो मद्ययोगात् कशायोग्यः अतस्तदेव कशायोग्य, कश्यं पिबति कश्यपः । कुश्यति सत्कर्मसु 'कुशिक' ५०३ ( उणादि ) इति साधुः। बजण् वर्जिणि गन्तो वा, भरन्तं वाजयति भरद्वाजः, उपगतं मन्यु बहुव्रीहिवा उपभन्युः । किरतीति 'नाम्युपान्त्य' ५-१-५४ इति के किलस्तमतति किरातस्य स्थाने वा किलातः। कस्य भार्या को, क्यां दर्भ इव पवित्रः कीदर्भः। विश्वे नरा अस्य विश्वानरः । ऋष्टयः सेनायां ऋष्टिवत् सेना वा यस्य ऋष्टिषेणः । ऋतेन सत्येन भागो भागधेयं यस्य ऋत भागः । हरयो नीलवर्णा अश्वा यस्य हर्यश्वः । प्रिय एव प्रियकः प्रियं कायति वा । पिबति उष्णं पानीयादिकं 'कीचक' ३३ ( उणादि) इति पियकः ।। - अपस्तभ्नाति अष्टप्रकारं कर्म अपस्तम्भः । कुत्सितं वान्ति विच्, कुवाः तेषां पार्वेन चरति कुवाचरति कुवाचरः, बाहुलकात् दीर्घत्वे कूवाचरः। शरद् उपकारकतयाऽस्यास्ति शरदद्वत् । शुनति परमां गतिं 'कीचक' ३३ ( उणादि) इति 'नाम्युपान्त्य''५-१-५४ इति के शुन इव शुनकः । धीयते अस्मात्तत्वमिति धेनुः । प वनति वनते वा गोपवनः । शेरते गणा अत्र शिनोति वा शिमः। वेत्तीत्येवंशीलो 'विन्द्विच्छू' ५-२-३४ विन्दुः । तां लक्ष्मी जमति ताजमः । अश्वानवतनोति अश्वावतान: । श्यायतेः 'मवाक' ३७ ( उणादि) श्यामाकः । श्यायन्ते श्याः श्यायां वसतौ गताना पर्णयति आद्रीकरोति देशनया श्यापर्णः। 'हश्या' २१० ( उणादि ) इति हरितः । किमपि दासते किंदासः । वसिमस्यति 'भीणूशलि' २१ ( उणादि ) इति के वस्यस्कः । अर्कमपि कशति तेजसा मशः । वधमर्हन्ति वध्यास्तान उगति 'मूलविभुज' ५-१-१४४ इति के वयोगः । विष्णुवत् वृष्णिवद् वा वृद्धः विष्णुवृद्धः । वृष्णिवृद्धः । प्रतिबोधयति प्रतिबोषः । रध्या तरति
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy