________________
१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ४०-४१ ] संघाद्यण च न भविष्यति । पौत्रशब्दाच्चावद्धप्रत्ययान्तत्वादञ्यणि च इम् आयनिन् च न भविष्यतीति विशेषाभाव एव, केचित्तु पुनर्व इति लुपमप्युदाहरन्ति, तेषां पुनर्भूरिति गोत्रं तहाप्यस्ति विशेषः ॥३९॥
न्या० स० पुनभू-यथा बैदमितीति बिदस्यापत्यानि बिदादेवृद्धेऽञ् , बिदानां संघादि बहुषु वर्तमानस्यानो न लुप् ‘न प्राजितीये स्वरे' ६-१-१३५ इति प्रतिषेधात् , नतो 'गोत्राददण्ड' ६-३-१६९ इत्यकबाधकः 'संघघोष' ६-३-१७२ इत्यण् ।
ततोऽप्यपत्यविषक्षायामिति-आपातमात्रे पूर्वपक्षोऽयम् , अन्यथा 'वृद्धाधुनि' ६-१-३० इति वचनात् अनन्तरानि प्रत्ययो न स्यात् , न च वृद्ध एव भविष्यतीति वाच्यं यतः 'आद्यात्' ६-१-२९ इति सूत्रात्पुत्र इत्येवंरूपायाः परमप्रकृतेरेव स्यात् । कि च तदा 'बिदार्षादणियोः लापो न स्यात् , तत्र युवप्रत्ययग्रहणात् ।
बैदः पुत्र इति बिदस्यापत्यं वृद्धं बिदादेवृद्ध अञ् , बैदस्यापत्यं युवा. 'अत इश्' ६-१-३१ 'बिदार्षादणियोः' ६-१-१४० इति लोपः । ___ का यणिरितीति कर्तुरपत्यं वृद्धं 'सोऽपत्ये' ६-१-२८ अण, कार्तस्यापत्यं युवा 'द्विस्वरादाणः' ६-१-१०९ आयनिञ् अस्य च ब्राह्मणत्वात् 'अब्राह्मणात्' ६-१-१४१ इति न लुप् ।
विशेषाभाव एवेति ननु तर्हि इबाधकः पुत्रादमित्येव क्रियतां किं गुरुणा सूत्रेण, यतः शेषेभ्यः सामान्योऽण अस्स्येव ? उच्यते, मताभिप्रायेण पुनर्भूपुत्रदुहितननान्दृग्रहणमिति दर्शितं, यतस्तन्मते दुहित्रादीनां पूर्वदर्शितं गोत्रे फलमस्तीति ।
परस्त्रियाः परशुश्वासावयें ॥६. १.४० ॥
परस्त्रीशब्दादनन्तरेऽपत्येऽन् प्रत्ययो भवति तत्संनियोगे परस्त्रीशब्दस्य परशुभावश्चासावये न चेत् पुरुषेण सह समानो वर्णो ब्राह्मणत्वादिस्तस्या भवति । परा पुरुषाद्भिन्नवर्णा स्त्री परस्त्री, तस्या अनन्तरापत्यं पारशवः । असावर्ण्य इति किम् ? परस्य श्री परस्त्री तस्या अनन्तरापत्यं पारस्त्रेणेयः । कल्याण्यादिपाठादेयण् अन्तस्य चेनादेशः, अनुशतिकादिपाठादुभयपदवृद्धिश्च ॥४०॥ बिदादेवृद्धे ॥ ६. १. ४१॥
बिदादिभ्यो वृद्धेऽपत्येऽर्थे अञ् प्रत्ययो भवति । बिदस्यापत्यं वृद्ध बंदः, बैदौ, बिदाः, और्वः, और्वो, उर्वाः, काश्यपः, काश्यपौ, कश्यपाः, भारद्वाजः, भारद्वाजौ, भरद्वाजाः । अथेन्द्रहूः सप्तमः काश्यपानाम् भारद्वाजानां कतमोऽसीत्यत्र बहुषु लुप् कस्मान्न भवति । नायम किंतु अस्येदम् इति विवक्षायामण, सर्वेषामपि हि पितरोऽभेदोपचारेण कश्यपाः, यथा बभ्रुः मण्डः लमक इति । वृद्ध इति किम् ? बिदस्यापत्यमनन्तरं बैदिः । बिद, उर्व,