SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् कुश: योक्त्रम् द्वीप, उड्डीशो ग्रन्थविशेषः, हरे तु देहिनामत्वात् पुस्त्वंपुरोडाशो हविभदे चमस्यां पिष्टकस्य च । रसे सोमलतायाइच, हुतशेषे च पुंस्यपि ॥ अथ षान्तः वृषः गवादिः, व्रतिनामासनं वृषी । अथ सान्तः कुल्मासः अर्धस्विन्नो माषादिः, अन्ननामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः, मूर्धन्योपान्त्योऽप्ययम् । अथ हान्ताः ४ निष्कुहः कोटरम्, ये तु टान्तमाहुस्तन्मते टान्तत्वात् पुंस्त्वम्, अह इति 'द्विगो:' [ ७. १. ११४. ] इति 'अह्नः ́ [७. ३. ११६. ] इति च कृतसमासान्तो ऽहन् शब्दः, द्वयोरोः समाहारो द्वयहः, त्र्यहः, पञ्चाहः, सप्ताहः । द्विगुरन्नेति स्त्रीनपुंसकत्वे परमाह उत्तराह इत्यादी परवल्लिङ्गताप्राप्तौ वचनम्, सुदिनैकाभ्यां क्लीबत्वम्, पुण्याहस्य तु पुंनपुंसकत्वम् । निर्यूहः शेखरे नागदन्ते निर्यासेऽपि, कलहः खड्गकोशे भण्डने च । अथ क्षान्त:, - पक्षः पिच्छम्, युद्धपिच्छनामत्वात्क्लीबत्वे प्राप्ते वचनं, प्रतिज्ञार्थादौ च पक्षस्य षान्तत्वादेव पुंस्त्वम् । अथेकारान्ता:, - राशिमेषादिः पुच, वराशि: स्थूलशाटः, वस्त्रनामत्वात् क्लांबत्वे प्राप्तेऽस्य पाठ: ऋषिर्वेदविशिष्टादौ ।। १५ ।। दुन्दुभिर्वमतिवृष्णि पाण्यविज्ञातिरा लिकलयोऽञ्जलिर्घा रिणः । अग्निवह्निमयोऽह्रिदीदिविग्रन्थि कुक्षिहतयोऽर्दनिर्ध्वनिः ।। १६ ।। [ 9 दुन्दुभिर्भेरीविशेषे, दैत्ये तु सिद्धमेव प्रक्षे स्त्रीत्वम् वमतिर्वान्तिः, वृष्णिः कुलविशेषः मेषश्च पारिणः हस्तः, प्रविः मूषककम्बलः, ज्ञातिः स्वजन:, रालिः कलहः, कलिः, अन्त्ययुगम्, अञ्जलिः पाणिपुट:, घृरिणरभीशु, प्रग्निः कृशानुः, वह्निः स एव कृमि: कीटः, अर्थप्राधान्यात् क्रिमिरपि । हि: पाद:, प्रर्थप्राधान्यादङ घिरपि, दीदिवि: ओदनम् अर्थप्राधान्यात् कुरुश्च ग्रन्थिः रज्ज्वादिवेष्टनबन्धः कुक्षिर्जठरम्, टतिश्चर्म चर्मप्रसेवकश्व, प्रर्दनिः अग्निः, ध्वनिः प्रतीयमानोऽर्थः, वृष्णिघृष्ण्योर्ण्यन्तत्वात् अग्निवह्नयोश्च न्यन्तत्वात् प्रर्दनेरन्यन्तत्वात् कृमेर्म्यन्तत्वात् पाणिकुक्ष्यं णां प्राण्यङ्गवाचीदन्तत्वात् स्त्रीत्वे दीदिवेरन्ननामत्वाद् रालेश्च युन्नामत्वात् क्लीवत्वे प्राप्ते वचनम् ।। १६ ।। गिरिशायुकd हाहाहूहूश्च नग्नहूर्गर्मु त् । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्मारणः ।। १७ ।। ॥ इति पुंलिङ्गं समाप्तम् ॥ गिरि: कन्दुकः, शिश्रुः श्रोत्रम्, जायुरौषधम्, कर्पू: कराषाग्निः, हाहाहूहूरित्यखण्डं नाम देवगायनवाचि, केचित् खण्डयन्ति, अव्ययत्वादलिङ्गाविति केचित्, गन्धवच हाहा हूहूरिति तु लक्ष्यम् । एकदेशविकृतस्यानन्यत्वात् * अर्थप्राधान्याद् वा निर्देशस्य तदपि संगृहीतम्, देहिनामत्वादेव पुंस्त्वसिद्धौ विमतिज्ञापनार्थं हूहूरित्यस्य कृत इति स्त्रीत्वबाधनार्थम्, नग्नहूर्माषदलिन्यादिबोजम्, अर्थप्राधान्यान्नग्नहुरित्यपि, नग्नान् ह्वयतीति व्युत्पत्तिप्राधान्ये त्वाश्रयलिङ्गता ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy