SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ लिङ्गानुशासनम् । पुंलिङ्ग कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तिव । ननङौ घघौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥ १॥ अथ लिङ्गानुशासनावचूरिः-- ॐ नमः सर्वज्ञाय । लिङ्गानुशासनमन्तरेण शब्दानुशासनं नाविकलमिति सामान्यविशेषलक्षणाभ्यां लिङ्गमनुशिष्यते। नामेति वक्ष्यमाणमिह संबध्यते । क ट ण थप भ म य र ष सान्तं स्न्वन्तं च नाम पुलिङ्ग स्यात्, कादयोऽकारान्ता गृह्यन्ते पृथक् सन्त निर्देशात्, द्विस्वरसन्तानां नपुसकत्वस्य वक्ष्यमाणत्वेन एकत्रिस्वरादिसन्ता गह्यन्ते । कान्तः-पानक: पटहो दुन्दुभिश्च इत्यादि । टान्तः-कक्षापुट: सारसंग्रहग्रन्थः इत्यादि । णान्तः-गुणः शुम्बेप्रधानादौ इत्यादि । थान्तः-निशीथः अर्धरात्र: शपथः समयः इत्यादि । पान्तः-क्षुपो लतासमुदायः इत्यादि । भान्तः-दर्भो बहिः इत्यादि । मान्तः-गोधूमो नागरङ्ग स्यादित्यादि । यान्तः-भागधेयो दायादः, राजदेये तु पुस्त्रियोर्वक्ष्यते, शुभे तु तन्नामत्वादेव क्लोबत्वम्, तन्दुलीयः शाकविशेषः इत्यादि । रान्तः-निर्दर: कन्दरी इत्यादि । पान्तः-गवाक्षः ‘गवाक्षी शक्रवारुण्यां, गवाक्षो जालके कपौ' इत्यादि । सान्तः-कूसः कञ्चके, हंसो विहङ्गभेदे इत्यादि । सन्त:-माश्चन्द्रमासयो: पुसि, अनेहाः कालः इत्यादि । नन्तः-ग्रावा पाषाणो गिरिश्च इत्यादि । उकारान्तः-तकु: सूत्रवेष्टनमग्न्याधारभाण्डं च, मन्तुः अपराधः इत्यादि ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy