________________
३५०
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ३ सू. १६८-१७२ ॥ त्रिककुदिरौ ॥ ७. ३. १६८॥
गिरौ पर्वतेऽभिधेय ककुदशब्दस्य त्रिशब्दात्परस्य बहवीही ककुदादेशः समासान्तो निपात्यते । त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य त्रिककुत्पर्वतः। गिराविति सिद्धे निपातनं गिरिविशेषप्रतिपत्त्यर्थम्, तेनान्यस्मिन् त्रिककुद इत्येव भवति ।१६८। स्त्रियामूधसो न् । ७. ३. १६९।।
स्त्रियां वर्तमानस्य ऊधस्शब्दस्य बहुव्रीही नकारादेशः समासान्तो भवति । कुण्डमिवोधोऽस्याः कुण्डोध्नी, घटोनी, पीवरमूधोऽस्या: पीवरोध्नी, महोनी गौः । स्त्रियामिति किम् ? महोधाः पर्जन्यः । बहुवीहेरित्येव ? ऊधः प्राप्ता प्राप्तोधा गौः ।१६९। इन: कचू ।। ७. ३. १७०॥
इन्नन्ताबहुव्रीहेः स्त्रियां वर्तमानात्कच् प्रत्ययः समासान्तो भवति । बहवो दण्डिनोऽस्यां बहुदण्डिका, बहुच्छत्रिका सेना । बहुरासभराविका शाला। • अनिनस्मन्ग्रहणान्यर्थवतानर्थ केन च तदन्तविधि प्रयोजयन्ति । बहुस्वामिका वहवाग्म्मिका पुरी । नियासित्येव । बहुदन्डी बदहुण्डिको राजा। चकारो 'न कचि' (२-४-१०४) इति विशेषणार्थः ।१७०।
ऋन्नित्यदितः ॥ ७. ३. १७१ ॥ ___ ऋकारान्तान्नित्यं दिदादेशो यस्मात्तदन्ताच्च बहीव्रीहेः कच् समासान्तो भवति । ऋत्, बहुक कः, बहुहर्तृकः । नित्यदित्, बहुकुमारीकः, बहुब्रह्मबन्धको ग्रामः । नित्यग्रहणं किम् ? पृथुश्री: पृथुश्रीकः, लम्बभ्रूः, लम्बभ्रूकः । पूर्वत्र खियां विधिरिति योगविभागः। केचिन्नित्यदितां चङन्तानामेव कचमिच्छन्ति । तन्मते बहुतन्त्रीः बहुतन्त्रीक इति · शेषाद्वा' (७-३-१७५) इति विकल्प: ।१७१। दध्युरःसर्पिमधूपागच्छालेः ॥ ७. ३. १७२ ॥
दधि, उरस, सर्पिस्, मधु, उपानह, शालि इत्येतदन्ताद्बहुव्रीहेः कच समासान्तो भवति । प्रियदधिकः, प्रियोरस्कः, प्रियसर्पिष्कः, प्रियमधुकः, प्रियोपानक: प्रिय शालिकः ।१७२।