________________
[ पाद ३. सू. १६२-१६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३४९ तुङ्गा नासिकास्य तुङ्गनासिकः ॥ कथं गोनासः ? यद्यस्ति नासाशब्देन भविष्यति । चकारः पूर्वेणास्य बाधानिवृत्त्यर्थः ।१६१।।
न्या० स० अस्थू०-वाधीणस इति वर्धस्येयं रज्जुरिति रज्जुविशेषणेन वा(शब्दः परतः स्त्रीति पुंभावप्राप्तिः, तद्वन्निरस्थिर्नासा अस्य ।। उपसर्गात् ॥ ७. ३. १६२ ॥
धातुयोगे यः प्रादिरुपसर्गसंज्ञो भवति तस्मात्परस्य नासिकाशब्दस्य बहुव्रीही नस इत्ययमादेशः समासान्तो भवति । प्रगता प्रवृद्धा वा नासिका अस्य प्रणसं मुखम्, 'नसस्य' (२-३-६६) इति णः। उन्नता उद्ता वा नासिकास्य उन्नसं मुखम्, असंज्ञार्थं वचनम् ।१६२१ वेः खुखग्रम् ॥ ७. ३. १६३ ॥
विशब्दादुपसर्गात्परस्य नासिकाशब्दस्य बहुव्रीहौ खुस्नग्र इत्येते आदेशाः समासान्ता भवन्ति । विगता नासिकास्य विखुः, विखः, विग्रः। उपसर्गादित्येव । वेः पक्षिण इव नासिकास्य विनासिकः ।१६३।
जायाया जानिः ॥ ७. ३. १६४ ॥ ___ जायाशब्दस्य बहुव्रीही जानिरित्ययमादेशः समासान्तो भवति । युवतिर्जाया अस्य युवजानिः, प्रियजानिः, शोभनजानिः, वधूजानिः अनन्यजानिः ।१६४। व्युदः काकुदस्य लुक् ॥ ७. ३. ९६५ ॥
वि उद् इत्येताभ्यां परस्य काकुदशब्दस्य बहुव्रोही लुक समासान्तो भवति । विगतं काकुदं ताल्वस्य विकाकुत्, उत्काकुत् ।१६५। पूर्णादा ॥ ७. ३. १६६ ॥
पूर्णशब्दात्परस्य काकुदशब्दस्य बहुव्रीही लुक् समासान्तो वा भवति । पूर्ण काकुदमस्य पूर्णकाकुत्, पूर्णकाकुदः । पूर्णादिति किम् ? रक्तकाकुदः ।१६६। ककुदस्यावस्थायाम् ॥ ७. ३. १६७ ।।
अवस्था वयः, काकुदशब्दस्य बहुव्रीहाववस्थायां गम्यमानायां लुक समासान्तो भवति । न संजातं ककुदमस्य असंजातककुद्वालः, पूर्णककुद् युवा, स्थूलककुबलवान्, यष्टिककुद्, नातिस्थूलो नातिकृशः, सन्नककुद् कृशः, पन्नककुदृद्धः । अवस्थायामिति किम् ? श्वेतककुदः। ककुच्छब्देनैव सिद्धे ककुदशब्दस्यास्मिन्विषये प्रयोगनिवृत्त्यर्थं वचनम् ।१६७।