SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४४] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १४०-१४२ ) नानाजातीयः, किंजातीयः । सामान्यवतीति किम् ? बहुजातिमः । अत्र ग्रामो न सामान्यवान् किन्तु तत्स्थाः पुरुषाः । अजातीय इत्यत्र तु सामान्यवानेवान्यपदार्थः । प्रतिषेधस्तु नअर्थः । सामान्यग्रहणं किम् ? दुर्जातेः सूतपुत्रस्य । अत्र जातिशब्दो जन्मपर्याय इति न सामान्यवानन्यपदार्थः । कथं पितृस्थानीयः, गुरुस्थानीयः ? स्थानीयं दुर्गमितिक्त् स्थीयतेऽस्मिन्निति स्थानीय इत्यधिकरणप्रधानेन स्थानीयशब्देन भविष्यति । पितेव स्थानीयः पितृस्थानीयः । १३६॥ न्या स० जाते०-यदि सामान्यवतीदं विधानं कथं अजातीय इति ? अत्र हि सामान्य प्रतिषिध्यते न विद्यते जातिरस्येति, न च तस्मिन प्रतिषिध्यमाने तदबोधनार्थः संभवतीत्याहअजातीय इत्यादि अयमर्थः, सामान्यवतीति सामान्यमात्रसंबन्धिन्यन्यपदार्थे वाच्ये प्रत्ययो, न तु विधोयमानसामान्यसंबन्धिनीति । भृतिप्रत्ययान्मासादिकः ॥ ७. ३. १४० ॥ भृतौ वर्तमानाद्यः प्रत्ययो विहितस्तदन्तात्परो यो मासशब्दस्तदन्ताबहुवा हेरिकः समासान्तो भवति । पञ्च भृतिरस्य पञ्चकः, पञ्चको मासोऽस्य पञ्चकमासिकः, सप्तकमासिकः, विशकमासिकः, त्रिंशकमासिकः, शस्यमासिकः, शतिकमासिकः कर्मकरः। भृतिप्रत्ययादिति किम् ? सुमासः। भृतिग्रहणं किम् ! वर्षासु भवो वार्षिकः, वार्षिको मासोऽस्य वार्षिकमासकः । प्रत्ययग्रहणं किम् ? भृतिमासोऽस्य भृतिमासकः। मासादिति किम् ? पञ्चको दिवसोऽस्य पञ्चकदिवसकः ।१४०॥ द्विपदाद्धर्मादन् ॥ ७. ३. १४१ ॥ धर्मशब्दान्ताद्विपदादबहुवा हेरन् समासान्तो भवति । साधनामिव धर्मोऽस्य साधुधर्मा, क्षत्रियधर्मा, अनन्तधर्मा, विनाशधर्मा । साक्षात्कृतो धर्मो येषां ते (एतैः) साक्षात्कृतधर्माणः । विकल्पमिच्छन्त्येके । कल्याणधर्मा, कल्याणधर्मकः, तद्धर्मा, तद्धर्मकः, विपरीतवर्मा, विपरीतधर्मकः। द्विपदादिति किम ? परमः स्वो धर्मोऽस्य परमस्वधर्मः । इह कस्मान्न भवति परमः स्वधर्मोऽस्य परमस्वधर्मः। प्रत्यासत्तेदिपदस्य बहुव्रोहेर्यदि धर्म एवोत्तरपदं भवति तदा स्यादितीह न भवति ।१४१॥ सुहरित तृणसोमाज्जम्भात् ॥ ७. ३. १४२ ॥ स हरित तृण सोम इत्येतेभ्यः परो यो जम्भशब्दस्तदन्तादब्रहुव्रीहेरन
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy