SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४० ] बृहद्वृत्ति - लघुन्यास संबलिते [ पाद. ३ सू. १२४-१२७ ] विद्यन्ते त्रयो यस्य सोऽत्रिः । शोभनास्त्रयो यस्य सुत्रिः निर्गतास्त्रिशदस्य निस्त्रिशत् । डित्वमन्त्यस्वरादिलोपार्थम् । १२३॥ न्या० स० नञ्० - नञ्ग्रहणमिति अव्ययद्वारेणापि सिद्धे । संख्याव्ययादङ्गुलेः ॥ ७. ३. १२४ ॥ संख्याया अव्ययाच्च परो योऽङ्गुलिशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । द्वयोरङ्गुल्योः समाहारः व्यङ्गुलम्, त्र्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्य मात्रट् तस्य लुप्, ततः समासान्तः । द्व्यङ्गुलम्; त्र्यङ्गुलम्, व्यङ्गुलप्रियः, त्र्यङ्गुलप्रियः, अव्यय, निरङ्गुलम् अत्यङ्गुलम्, तत्पुरुषादित्येव ? उपाङ्गुलि, पञ्चाङ्गुलिर्हस्तः । अनङ्गुलिः पुरुषः । कथमात्माङ्गुलं प्रमाणाङ्गुलम् उत्सेधाङ्गुलमिति ? अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् । 'स्वेनाङ्गुलप्रमाणेनाङ्गुलानां शतं हस्तोऽङ्गुल पुमान्' । यथा विंशत्येति । १२४ | बहुव्रीहेः काष्ठे टः ॥ ७. ३. १२५ ॥ अङ्गुल्यन्ताद्बहुव्रीहेः काष्ठे वर्तमानात् टः समासान्तो भवति । द्वे अङ्गुली यस्य व्यङ्गुलम् । त्र्यङ्गुलं, चतुरङ्गुलम्, पञ्चाङ्गुलम् । अङ्गुलिसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते । बहुव्रीहेरिति किम् ? उपाङ्गुलि, अत्यङ्गुला यष्टिः । काष्ठ इति किम् ? पञ्चाङ्गुलिर्हस्तः । अङ्गुलेरिति निर्देशादङ्गुलीशब्दान्तान्न भवति । द्वावङ्गुलीसदृशाववयवो यस्य तत् द्व्यङ्गुलीकम् दारु । ' न कचि ' (२-४ -१०४) इति हस्वाभाव:, टकारो ङ्घर्थः । दीर्घाङगुली । तीक्ष्णाङ्गुली यष्टिः । १२५ । सक्थ्यक्ष्णः स्वाङ्गे ॥ ७. ३. १२६ ॥ स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद्बहुव्रीहेष्टः समासान्तो भवति । दीर्घं सक्थि यस्य दीर्घसक्थः, दीर्घसक्थी, गौरसक्थः, गौरसक्थी, विशालाक्षः, विशालाक्षी, कमलाक्षः, कमलाक्षी, स्वक्षः, स्वक्षी । सक्थ्यक्ष्ण इति किम् ? सुबाहुः, दीर्घजानुः । स्वाङ्ग इति किम् ? दीर्घसक्थि शकटम्, स्थूलास्थिरिक्षुः । बहुव्रीहेरित्येव ? परमसक्थि, सदक्षि । १२६ । न्या० स० सक्थ्य० —— स्थूलाक्षिरिक्षुरिति समासान्तविधेरनित्यत्वात् 'अक्ष्णोऽप्राण्यङ्गे ७ - ३ - ८५ इत्यनेनापि न भवति । , द्वित्रेमूनों वा ॥ ७. ३. १२७ ॥ द्वि, त्रि इत्येताभ्यां परो यो मूर्धन् शब्दस्तदन्ताद्बहुव्रीहेष्टः समासान्तो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy