SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३१० ] बृहवृत्ति-लघुन्याससंलिते [पाद. ३ सू० १९-२३ } शाटी, लोहितिका पटी, अनित्यवर्णे, लोहितकमणो रूपं कोपेन, लोहितकमक्षि कोपेन, लोहिनिका लोहितिका कन्या कोपेन, वाधिकारान्न भवत्यपि । लोहिता लोहिनी वा कोपेन । नित्योऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरक्त पट इति रक्तग्रहणम् । अनित्यग्रहणं किम् । लोहित इन्द्रगोपकः । सत्येवाश्रयद्रव्येऽपय निहानित्य उच्यते । अन्यथा रक्तग्रहणस्यानर्थक्यात् । वर्णग्रहणं द्रव्य निवृत्यर्थम्, असति वर्णग्रहणे स्त्रीणामार्तवे द्रव्ये स्यात् । तद्धि सत्येवाश्रये स्त्रियां कदाचिन्न भवति लोहितशब्दवाच्यं च ॥१८॥ न्या० स० स्का०-नित्योपीत्यादि-ननु रक्त वातुनि अनित्य एक वर्णो भवति यथा हरिद्रादौ, तत्रानित्यवणे इत्येव प्रत्ययः सिध्यति किमर्थ रक्तप्रहमिन्याशङ्का ? सत्येवेति इन्द्रगोपकाभावे लोहितत्वनिवृत्तावपि नानित्यत्वमिति । कालात् ।। ७. ३. १९॥ कालशब्दात्कज्जलादिना रक्त अनित्यवर्णे चार्थे वर्तमानात्कः प्रत्ययो वा भवति । रक्त, काल एव कालकः पटः, अनित्यवणे, कालकं मुखं कैलक्ष्येण । वाधिकारान्न भवत्यपि । कालः पटः, कालं मुखम् ।१९। शीतोष्णादतौ ॥ ७. ३. २० ॥ शीतोष्णशब्दाभ्यामृतौ वर्तमानाभ्यां कः प्रत्ययो वा भवति । शीत एव शीतक ऋतुः, उष्णक ऋतुः। ऋताविति किम् ? शीतो वायुः, उष्णः स्पर्शः ।२०। लूनवियातात्पशी ॥ ७. ३. २१ ।। लनवियातशब्दाभ्यां पशो वर्तमानाभ्यां स्वार्थ कः प्रत्ययो वा भवति । लन एव लनकः, वियातकः पशुः। पशाविति किम् ? लनो यवः, वियातो बटः । विहानशब्दादपोच्छन्त्येके । विहानकः पशुः, विहान एवान्यत्र ।२१। स्नातादेदसमाप्तौ ।। ७. ३. २२ ।। स्नातशब्दावेदसमाप्ती गम्यमानायां कः प्रत्ययो भवति । वेदं समाष्य स्नातः स्नातकः । वेदसमाप्ताविति किम् ? तीर्थे स्नातः ।२२।। तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते ॥७.३.२३ ॥ तनपुत्राणुबहतीशून्य इत्येतेभ्यो यथासंख्यं सूत्रकृत्रिमनिपुणाच्छादनरिक्त इत्येतेष्वर्थेषु वर्तमानेभ्यः स्वार्थे कः प्रत्ययो भवति । तनोः सूत्रे, तनु सूत्र
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy