________________
पाद ३. सू. १५-१८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः
[ ३०९
अनत्यन्तं छिन्नं छिन्नकम्
1
अनत्यन्तं भिन्नं भिन्नकम् इदमेषां प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम् इदमनयोः प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम्, यदा तु प्रकर्षवतोsनत्यन्तविशिष्टविवक्षा तदा तमबाद्यन्तात् 'क्तात्तमबादेश्चा'नश्यन्ते' (७-३-५६) इति कब् भक्त्येव । छिन्नतमकम्, छिन्नतरकम्, भिन्नतमकम्, भिन्नतरकम् ॥ १४ ॥
,
,
1
यावादिभ्यः कः ॥ ७, ३. १५॥
याव इत्येवमादिभ्यः स्वार्थे कः प्रत्ययो भवति । याव एव याबक, मणिरेव मणिकः, अविरेव अविक: 1
याव,
मणि, अवि, अस्थि, लात्र, पात्र, पीत, स्तब्ध, ज्ञात, अज्ञात, 'पुण्य, नित्य, सत्वत् दशार्ह, वयस्, चन्द्र, जानु, भूत, भिक्षु इति मावादिराकृतिगणः । तेनाभिन्नलरकम् बहुतरकमित्यादि सिद्धम् ।१५।
"
कुमारी क्रीडने यसोः
।। ७. ३. १६ ।।
कुमारीणां यानि क्रीडनानि तद्वाचिभ्य ईयसुप्रत्ययान्तेभ्यश्च स्वार्थे कः प्रत्ययो भवति । कन्दुरेव कन्दुकः, उत्कण्टकः, गिरिकः, समुद्गकः, दोलिका, भ्रमरकः, शृङ्गकम् । ईयसु, श्रेयानेव श्रेयस्कः, ज्यायस्कः, भूयस्कः । १६ ।
न्या० स० कुमा० – दोलिकेति दोलैव 'इच्चापुंसो नि' २-४-१०७ इति वा इत्वम् । ज्यायस्क इति द्वयोर्मध्ये प्रकृष्टो वृद्धः प्रशस्यो वा ईयसुः ' वृद्धस्य च ज्यः ' ७-४-३५ 'ज्यायान्' ७-४-३६ इति ईकारस्य आकारः, ज्यायानेव ' प्रत्यये ' २-३ - ६ इति सूत्रेण सः । भूयस्क इति द्वयोर्मध्ये प्रकृष्टो बहुः ईयसि 'भूर्लुक् चेवर्णस्य ' ७-४-४१ भूरादेश ईलोपश्च ।
लोहितान्मणौ ॥ ७. ३. १७ ॥
लोहितशब्दान्मणी वर्तमानात् स्वार्थे कः प्रत्ययो वा भवति । लोहित एव लोहितको मणिः, लिङ्ग विशिष्टस्यापि ग्रहणाल्लोहिन्येव लोहिनिका मणिः, लोहितैव लोहितिका मणिः, मणेविशेषणमेतदित्येके । नामधेयमित्यन्ये । वाधिकारात भवत्यपि । लोहितो मणिः । मणाविति किम् ? लोहिता गौः ॥ १७ ॥
रक्तानित्यवर्णयोः ॥ ७. ३.१८ ॥
रक्त द्रव्यान्तरेण लाक्षादिना बर्णान्तरमापादितेऽनित्ये च वर्णे, वर्तमानाल्लोहितशब्दात्कः प्रत्ययो वा भवति ।
रक्त लोहित एव लोहितकः पटः, लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका