________________
॥ तृतीयः पादः ॥
-
प्रकृते मयट् ॥ ७ ३. १॥
प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम्, प्रकृतेऽर्थे वर्तमानान्नाम्नः स्वार्थे मयट् प्रत्ययो भवति ।
अन्नं प्रकृतम् अन्नमयम्, घृतमयम्, दधिमयम्, टकारो ङघर्थ:यवागूमयी । अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागूः प्रकृता यवागूमयम् । एवमुत्तरत्रापि । अपूपाः प्रकृताः आपूपिकम् अपूपमयम्, शष्कुल्यः प्रकृताः शाष्कुलिकम् शष्कुलीमयम् । प्रकृत इति किम् ? अन्नम् घृतम् ॥ १॥
न्या० स० प्रकृते ० – अन्नमयमिति अन्नं प्रचुरं प्रधानं वेत्यर्थः । अतिवर्तन्ते इति इहानमयमित्यादिषु युक्तमन्नादेर्नपुंसकत्वात् प्रत्ययस्यापि तत्रैव वृत्तिरिति यवागूमयीत्यपि युक्तमेव प्रकृत्यर्थस्य स्वात् प्रत्ययस्य स्वार्थिकस्य तत्रैव स्त्रियां वृत्तेः, यवागूमयमिति त्वयुक्तं यवाग्वर्थस्य स्त्रीत्वात् स्वार्थिकस्य प्रत्ययस्यापि तत्तैव वृत्रैर्नपुंसकत्वायोगादित्याशङका ।
अस्मिन् ॥ ७.
३.२ ॥
प्रकृतेऽर्थे वर्तमानान्नान्नोऽस्मिन्निति सप्तम्यर्थे मयट् प्रत्ययो भवति । अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम्, अपूपमयं पर्व, वटकमयी यात्रा, वागूमी इष्टः ॥ २॥
तयोः समूहवच्च बहुषु ॥ ७. ३.३ ॥
तयोः 'प्रकृते' 'अस्मिन्' इत्येतयोर्विषययोर्बहुषु वर्तमानान्नान्नः समूहयत्प्रत्ययो भवति चकारान्मयट् च ।
--
अपूपाः प्रकृता: आपूपिकम्, अपूपमयम्, मौदकिकम्, मोदकमयम्, शाष्कुलिकम्, शष्कुलीमयम् । 'कवचिहत्य चित्ताच्चेकण्' 'धेनुकम् धेनुमयम्, ' धेनेारनञः'। अपूपाः प्रकृता अस्मिन् आपूपिकम् अपूपमयं पर्व, मौदकिकी मोदकमयी पूजा, गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या, गणिकामयी यात्रा | 'गणिकाया ण्यः | अश्वीया अश्वमयी यात्रा । ' वाश्वादीयः ' ॥३॥
,
निन्द्ये पाश ॥ ७ ३.४ ॥
निन्द्येऽर्थे वर्तमानान्नाम्नः स्वार्थे पाशम् प्रत्ययो भवति ।