SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [पाद. २. सू. १७०-१७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३०१ वैनयिकम्, समय एव सामयिकम् । विनय, समय, समाय, कथंचित्, अकस्मात्, उपचार, व्यवहार, समाचार, संप्रदाय, समुत्कर्ष, संगति, संग्राम, समूह, विशेष, अव्यय, अत्यय, अनुगादिन् इति विनयादिराकृतिगणः ।।१६९॥ उपायादुध्रस्वश्च ॥ ७. २. १७० ॥ उपायशब्दात्स्वार्थे इकण् प्रत्ययो वा भवति तत्संनियोगे च हस्वः । उपाय एव औपयिकम् ।।१७०॥ मृदस्तिकः ॥ ७. २.१७१।। मच्छब्दात्स्वार्थे तिकः प्रत्ययो वा भवति । मृदेव मृत्तिका ।।१७१॥ सस्नो प्रशस्ते ॥ ७. २. १७२ ॥ मृद् इत्येतस्मात् प्रशस्तेऽर्थे वर्तमानात् स स्न इत्येतौ प्रत्ययो वा भवतः, रूपप्रत्ययापवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना, केचित्तु रूपमपीच्छन्ति प्रशस्ता मृत् मृदूपा ॥१७२।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपजशब्दानुशासनबृहवृत्तौ सप्तमाध्यायस्य द्वितीयः पादः समाप्तः ।।७ २. १७२ ॥ उत्साहसाहसवता भवता नरेन्द्र, धारावतं किमपि तद्विषमं सिवे । यस्मात्फलं न खल मालवमात्रमेव श्रीपर्वतोऽपि तव कन्दुककेलिपात्रम् ॥१॥ इत्याचार्य श्री हेमचन्द्रविरचितायां बृहद्वृत्तावचूर्णिकायां सप्तमस्वाध्यायस्य द्वितीयः पादः समाप्तः।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy