________________
'[ पाद. २. सू. १४६-१४९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२९५ श्रत्करोति, खाट् करोति । कृभ्वस्तिनेति किम् ? पटज्जायते । अनिताविति किम् ? पटिति करोति ।१४५।
न्या० स० अव्यक्त० आनर्थक्यादिति यदि प्रत्ययस्य द्विभक्तिः क्रियते तथापि समानानामिति दीर्घत्वे एकस्यैव श्रुतिर्भवति । भव्यक्तवर्णस्यापीति अथ पटदित्यादि व्यक्तवर्णमव्यक्तवर्णस्य कथमनुकरणमनुकरणस्यानुकार्यसदृशत्वादन्यथातिप्रसङ्गः स्यादित्याह-कचिदिति, पटिति करोतीति न च परत्वात् 'इतावतो लुक' ७-२-१४६ इति लुका भाव्यमिति वाच्यम् , कृभ्वस्तीनामभावे तस्य चरितार्थत्वात् ।
इतावतो लुक् ॥ ७. २. १४६ ॥ ___ अव्यक्तानुकरणस्यानेकस्वरस्य योऽत् इत्ययं शब्दस्तस्य इतिशब्दे परे लुग् भवति ।
__पटत् इति पटिति, झटत् इति झटिति, एवं छमत् छमिति, घटत् · घटिति, असिद्धं बहिरङ्गमन्तरङ्गे इति लुकि सति तृतीयत्वं न भवति ।
अव्यक्तानुकरणस्येत्येव, जगदिति । अनेकस्वरस्येत्येव, छत् इति छदिति । स्रत् इति स्रदिति । अत इति किम् ? महत् इति मरुदिति । शरद् इति शरदिति । इताविति किम् ? पटदत्र । कथं घटदिति गम्भीरमम्बुदैनंदितं, चकदिति तडितापि कृतम् इति । दकारान्तावेतौ द्रष्टव्यौ ।१४६। न द्वित्वे ।। ७. २. १४७ ॥
अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे द्विर्वचने कृते इतिशब्दे परे योऽत् शब्दस्तस्य लुग न भवति । पटपटदिति, घटत्घटदिति, झटत्झटदिति । वीप्सायां द्विवचनम् । द्वित्वे इति किम् ? पटिति । कथं चटच्चटिति ? धगद्धगिति पटत्पटिति नात्र द्वित्वमपि तु समुदायानुकरणमिति भवति ॥१४७॥ तो वा ॥ ७. २. १४८॥
द्वित्वे सति अव्यक्तानुकरणस्यानेकस्वरस्य योऽच्छब्दस्तस्य संबन्धिनस्तकारस्येतौ परे वा लुग भवति । पटत्पटेति करोति, पटपटदिति करोति, घटद्घटेति करोति, घटत्घटदिति करोति ।।१४८॥ डाच्यादौ ॥ ७. २. १४९ ॥
अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आदी पूर्वपदे योऽतस्तकारस्तस्य डाचि परे लुग्भवति । पटपटा करोति, दमदमा करोति । आदाबिति किम् ? पतपता करोति । डाच्यन्त्यस्वरादिलोपे मूलप्रकृतेस्तकारस्य लुग न भवति ॥१४९॥