________________
२९४ ] बृहद्वृत्ति-लघुन्याससंलिते [पाद. २ सू० १४२-१४५
दुःखाकरोति शत्रत्, शत्त्रोः प्रातिकूल्यं करोति, प्रतिकुलमाचरति । अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः। प्रातिकूल्य इति किम् ? दुःखं करोति रोगः ॥१४॥ शूलात्पाके ।। ७. २. १४२ ॥
शूलशब्दात्पाके गम्यमाने कृगा योमे डाच् प्रत्ययो भवति । शुलाकरोति मांसम्, शूले पचतीत्यर्थः । पाक इति किम् ? शूलं करोति कदन्नम् ।१४२। सत्यादशपथे ॥ ७. २. १४३ ॥
सत्यशब्दाच्छपथादन्यत्र वर्तमानात् कृगा योगे डाच् प्रत्ययो भवति । सत्याकरोति वणिग् भाण्डम्, कार्षापणादिदानेन मयावश्यमेवैतत क्रेतव्यमिति विक्रेतारं प्रत्याययति । अशपथ इति किम् ? सत्यं करोति। यदीदमेवं न स्यात, इदं ये इष्ट माभूत्, अनिष्टं वा भवत्विति शपथं करोतीत्यर्थः ।१४३। मद्रमद्राद्धपने ॥ ७. २. १४४ ॥ मद्रभद्रशब्दाभ्यां वपने मुण्डने गम्यमाने कृगा योमे डाच् प्रत्ययो भवति ।
मद्रं वपनं करोति मद्राकरोति, भद्राकरोति नापितः। शिशोमङ्गल्यं केशच्छेदनं करोतीत्यर्थः । मद्रभद्रशब्दौ मङ्गल्यवचनौ। वपन इति किम् ? मद्रं करोति, भद्रं करोति साधुः ।१४४॥ अव्यक्तानुकरणादनेकस्वरात् कृम्वस्तिनानितौ
. दिश्च ॥ ७. २. १४५ ॥ यस्मिन् ध्वनावकारादयो वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः तस्यानुकरणमव्यक्तानुकरणम्, तस्मादनेकस्वरादनितिपरात् कृभूअस्ति इत्येतैर्धातुभिर्योगे डाच प्रत्ययो वा भवति द्विश्चास्य प्रकृतिरुच्यते । प्रत्ययस्य द्विर्वचनानर्थक्यात् ।
पटत् करोति पटपटा करोति, पटपटा भवति, पटपटा स्यात्, दमत् करोति, दमदमाकरोति, दमदमाभवति, दमदमास्यात्, एवं मसत् करोति, मसमसा करोति, खरटत् करोति, खरटखरटा करोति । अव्यक्तवर्णस्यापि कथंचिद् ध्वनिमात्रसादृश्यात् व्यक्तवर्णमनुकरणं भवति । अव्यक्तानुकरणादिति किम् ? दृषत्करोति । अत्र व्यक्तवर्णमनुकार्यम् । अनेकस्वरादिति किम् ?