________________
२९२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० १३५-१३६ । स्यात्, देवान् करोति देवत्रा करोति, देवान् गच्छति देवत्रा गच्छति। एवं मनुष्यत्रा वसति, मनुष्यत्रा गच्छति, मर्त्यत्रा वसति मर्त्यत्रा गच्छति, पुरुषत्रा वसति, पुरुषत्रा गच्छति, पुरुत्रा वसति, पुरुत्रागच्छति, बहुत्रा वसति, बहुत्रा गच्छति । देवादयः शिष्टप्रयोगगम्याः ॥१३४॥ तीयशम्बबीजात् कृगा कृषौ डाच ।। ७. २. १३५ ॥
तीयप्रत्ययान्तात् शम्बबीज इत्येताभ्यां च करोतिना योगे कृषिविषये डाच् प्रत्ययो भवति ।
द्वितीयं वारं करोति क्षेत्रं द्वितीया करोति क्षेत्रम्, द्वितीयं वारं कृषतीत्यर्थः, तृतीयाकरोति क्षेत्रम्, तृतीयं वारं कृषतीत्यर्थः । शम्बाकरोति क्षेत्रम्, अनुलोमकृष्टं पुनस्तिर्यक् कृषतीत्यर्थः । अन्ये त्वाहुः शम्बसाधनः कृषिरिति शम्बेन कृषतीत्यर्थः ।
___ एके तु शम्बाकरोति कुलिवमित्युदाहरन्ति । लोहकं वा वर्धकुण्डलिका वा शंबम्, तत् कुलिवस्य करोतीत्यर्थः। बीजाकरोति क्षेत्रम्, उप्ते पश्चाद्बीजैः सह कृषतीत्यर्थः । यदाप्येवं विग्रहः क्षेत्रस्य द्वितीयां कृषि, कर्ष, कर्षणं करोति । शम्बं करोति क्षेत्रस्य कुलिवस्य वा बीजं करोति क्षेत्रस्येति तदापि द्वितीयाकरोति क्षेत्रमित्यादौ क्षेत्रात् द्वितीया भवति । द्वितीयाकरोतीत्यादयो हि मुण्डयतीत्यादिवत् क्रियाशब्दास्तेषां च क्षेत्रादि कर्म भवति । कृगेति किम् ? द्वितीयं वारं कृषति । कृषाविति किम् ? द्वितीयं पटं करोति । चकारो, 'डाच्यादौ'-(७-२-१४९) इत्यत्र विशेषणार्थः ।९३५।
न्या० स० तीय-प्रत्ययान्तादिति 'द्वस्तीयः' ७-१-१६५ इत्यादिविहितात् यस्तु मुखतीय इत्यादौ तीयस्तदन्तादनर्थकत्वान्न भवति ।
शम्बसाधन इति शम्बो हलभेदः स साधनं कारकं यस्य, यदाप्येवं विग्रह इति ननु प्रथम षष्ठी डाचि उत्पन्ने कथं द्वितीयेत्याशनका।
संख्यादेर्गुणात् ॥ ७. २. १३६ ॥ __संख्याया आद्यवयवात्परो यो गुणशब्दस्तदन्तात् कृगा योगे कृषिविषये डाच् प्रत्ययो भवति ।
द्विगुणं कर्षणं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम्, त्रिगुणाकरोति क्षेत्रम् । क्षेत्रस्य द्विगुणं त्रिगुणं च विलेखनं करोतीत्यर्थः। कृषावित्येव । द्विगुणां रज्जु करोति ।१३६।