SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ [ पाद. २. सू. १३१-१३४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२९१ जातेः संपदा च ॥ ७. २. १३१ ॥ कृभ्वस्तिभिः संपदा च योगे करातिकमणो भ्वस्तिकतु : संपदिकतु श्च प्रागतत्तत्त्वेन जातेः सामान्यस्य व्याप्तौ स्सात्प्रत्ययो भवति । ___ अस्यां सेनायां सर्वं शस्त्रमग्निसात्करोति देवम्, अस्यां सेनायां सर्व शस्त्रमग्निसाद्भवति, अग्निसात् स्यात्, अस्यां सेनायां सर्व शखमग्निसात्संपद्यते। वर्षासु सर्वं लवणमुदकसात्करोति मेघः, उदकसाद्भवति, उदकसात् स्यात्, उदकसात्संपद्यते । यथव ह्ये कस्य द्रव्यस्य सर्वावयवाभिसंबन्धे प्रागतत्तत्त्वेन व्याप्तिर्भवति तथा जातेः सामान्यस्य सर्वव्यक्तिसंबन्धे भवति । एवं च व्याप्ताविति सामान्योपादानात् कृभ्वस्तियोगे पूर्वेणैव स्सासिद्धः संपद्यर्थं तु वचनम्, चकार उत्तरत्रोभयोः समुच्चयार्थः ॥१३१।। तत्राधीने ॥ ७. २. १३२ ॥ कृभ्वस्तिभ्यां संपदा चेत्यनुवर्तते, कर्मकर्तृभ्यां प्रागतत्तत्त्वे इति च निवत्तम् । तत्रेति सप्तम्यन्तादधीने आयत्तेऽर्थे कृभ्वस्तिसंपद्भिर्योगे स्सात्प्रत्ययो भवति । . राजन्यधीनं करोति राजसात्करोति, राजस्वामिकं करोतीत्यर्थः, राजसाद्भवति, राजसात्स्यात्, राजसात्संपद्यते। आचार्यसात्करोति, आचार्यसाद्भवति, आचार्यसात् स्यात्, आचार्यसात्संपद्यते ।।१३२॥ न्या० स० तत्र-निवृत्तमिति तत्रेति भणनात् कर्मकर्तृभ्यामिति अधीने इत्यभिनवार्थोपादानाच्च प्रागतत्तत्व इति । देये त्रा च ॥ ७. २. १३३ ॥ - तत्रेति सप्तन्यन्तायोपाधिकेऽधीनेऽर्थे कृभ्वस्तिसंपद्भिर्योगे त्राप्रत्ययो भवति । चकारो न स्सातोऽनुकर्षणार्थः तस्याधीनतामात्रविवक्षायां पूर्वेणैव सिद्धत्वात् । किंतु, कृभ्वस्तिभ्यां संपदा चेत्यस्यानुकर्षणार्थः, तेनोत्तरत्र नानुवर्तते । देवेऽधीनं देयं करोति देवत्रा करोति द्रव्यम्, देवाय दातव्यमिति यत् स्थापितं तदिदानी देवाय ददातीत्यर्थः, देवेऽधीनं देयं भवति देवत्रा भवति । देवत्रा स्यात्, देवत्रा संपद्यते, गुरुत्रा करोति, गुरुत्रा भवति, गुरुत्रा स्यात्, गुरुत्रा संपद्यते । देय इति किम् ? राजसाद्भवति राष्ट्रम् ।।१३३॥ सप्तमीद्वितीयाद्देवादिभ्यः ॥ ७. २. १३४ ॥ सप्तम्यन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यस्त्रा प्रत्ययो वा भवति स्वार्थे । देवेषु वसति देवत्रा वसति, देवेषु भवति देवत्रा भवति, देवेषु स्याद्देवत्रा
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy