SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [ पाद. २. सू. ११३-११४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२८५ तत्काले वाविप्रकृष्टे वर्तमानात्तद्वति धा प्रत्ययो भवति । बहव आसन्ना बारा अस्य बहुधा भुङ्क्ते, बहुधा पिबति । आसन्न इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते । आसन्नवारेऽपि वारमात्रे द्योत्ये कृत्वस् प्रत्ययो भवत्येव । बहुकृत्वोऽह्रो भुङ्क्ते, आसन्नत्ता तु प्रकरणादिना गम्यते । एके तु गणधा भुङक्त तावद्धा भुक्त इत्यत्रापीच्छन्ति १११२ दिकशब्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः ॥ ७. २. ११३ ॥ दिकशब्दादिशि प्रसिद्धाच्छब्दादिशि देशे काले च वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् स्वार्थे धा प्रत्ययो भवति । प्राची दिग् रमणीया प्राग्रमणीयम् । प्राङ् देशो रमणीयः प्राग्रमणीयम्, प्राङ कालो रमणीयः प्राग्रमणीयम्, प्राच्या दिश आगतः प्रागागतः, प्राचो देशादागतः प्रागागतः, प्राचः कालादागतः प्रागागतः, प्राच्यां दिशि वसति प्राग्वसति, प्राचि देशे वसति प्राग्वसति, प्राचि काले वसति प्राग्वसति । 'लुबञ्चेः'-(७-२-१२३) इति धाप्रत्ययस्य लुप् । लुपि 'यादेः' (२-४-९४) इत्यादिना डोलुक् । दिक्शब्दादिति किम् ? ऐन्द्री दिक् । दिग्देशकालेष्विति किम् ? प्राङ् वृक्षः । प्रथमापञ्चमीसप्तम्या इति किम् । प्राची दिशं पश्यति, प्राच्या दिशा प्रज्वलितम् । प्राच्य दिशे देहि, प्राच्या दिशः स्वम् । दिग्देशकालेष्विति बहुवचन प्रथमादिभिर्यथासंख्यनिवृत्त्यर्थम् ।११३। न्या० स० दिक्श०-ननु दिग्देशकालेविलि दिगग्रहणं किमर्थ, यो हि दिग्शब्दः स दिशि वर्तत एव ? नैवं, न हि दिगशब्दो दिइयेव वर्त्ततेऽपि तु देशादापि, तन्त्र दिग्ग्रहणं विना देशकाल इत्युच्यमाने यदा दिक्शब्दो देशे काले वा बर्त्तते तदैव प्रत्ययः स्यात् , यदा तु दिशि तदा न स्यात् , ततो दिगदेशकालेषु त्रिष्वेच वर्तमाना दिक्शब्दा गृह्यन्ते, लेन केघलायां दिशि ककुभप्रभृतिभ्यो न भवति । प्रागरमणीयमिति एषु क्रियान्ययविशेषणे इत्यनेनाव्ययविशेषणत्वात् नपुंसकत्वम् । ऊर्धादिरिष्टातावुपश्चास्य ॥ ७. २, ११४ ॥ ऊर्ध्वशब्दादिग्देशकालेषु वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् रि रिष्टात् इत्येतौ प्रत्ययौ धापवादौ भवतः, अस्य चोवंशब्दस्योपादेशो भवति । ऊर्ध्वा दिग्देशः कालो वा रमणीयः, उपरि रमणीयम् उपरिष्टात् रमणीयम्, एवम् उपर्यागतः, उपरिष्टादागतः, उपरि वसति उपरिष्टादसति ।११४॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy