________________
[ पाद. २. सू. २९-३१ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [२६५
___ लोमन्, रोमन्, बभ्रु, वल्ग, हरि, कपि, मुनि, गिरि, उरु, कर्क इति लोमादिः । पिच्छ, उरस्, धुवका, ध्रुवका, पक्ष, चूर्ण इति पिच्छादिः ।२८।
न्या० स० लोम०-पिच्छिल इति पिच्छं चिक्कणत्वमस्यास्ति, यद्वा पिच्छं मयूरादिसत्कमस्यास्त्युपमानतया । नोऽङ्गादेः ॥ ७. २. २९ ॥
अङ्ग इत्येवमादिभ्यो मत्वर्थे न: प्रत्ययो भवति मतुश्च । अङ्गान्यस्याः सन्ति अङ्गना। रूढिशब्दोऽयं, कल्याणाङ्गी स्त्री उच्यते इतिकरणात् अन्यत्राङ्गवती । पामनः पामवान्, वामनः वामवान् ।
अङ्ग, पामन्, वामन्, हेमन्, श्लेष्मन्, सामन्, वर्मन् (वर्मन्) शाकिन्, पलालिन्, पलाशिन्, ऊष्मन्, कद्रु, बलि इत्यङ्गादिः योगविभाग उत्तरार्थः ।२९॥
न्या० स० नोऽङ्गा०- वामन इति वामानि नीचान्यर्थादगान्यस्य । योगविभाग इति एकयोगन्तु लोमपिच्छाङ्गादेः शेलेनमित्येवंविधः स्यात् । शाकीपलालीदा हस्वश्च ॥ ७. २. ३० ।।
शाकी पलाली दर्दू इत्येतेभ्यो मत्वर्थे नः प्रत्ययो भवति मतुश्च नप्रत्ययसंनियोगे चषां इस्वोऽन्तादेशः। महच्छाकं शाकमूसहो वा शाकी, महत्पलालं पलालक्षोदो वा पलाली। द न म व्याधिः । शाकिनः, शाकीमान, पलालिनः, पलालीमान्, दर्दु णः, दर्दू मान् । केचित्तु शाकीपलाल्योईस्वत्वं नेच्छन्ति । तन्मते शाकीनः, पलालोनः ।३०।
न्या० स० शाकी-शाकीति महत्त्वे समूहेऽपि तद्बहुलमिति स्त्रीत्वे गौरादित्वात् ङी । विष्वचो विषुश्च ।। ७ २. ३१ ।।
विष्वच इत्येतस्मान्मत्वर्थे नः प्रत्ययो भवति विषु इत्ययं चादेशो भवति । विष अञ्चतीति विष्वक् । विष्वञ्चो रश्मयो विष्वग्नतानि वा अस्य सन्ति इति विषुणः आदित्यः । विषुणः वायुः । विषुशब्दो निपातो नानात्वे वर्तते । विष्वगिति अखण्डमव्ययं वा। नकारसंनियोगे आदेशस्य विधानात् मतौ विष्वग्वान् । कथं विषमानहोरात्रप्रविभाग इति ? विषुर्नाम मुहूर्तस्तस्माद्भविष्यति ।३१।
न्या० स० विध्वचो०- विष्वक् इति अत्र रूपमित्यध्याहारात् क्लीबत्वे सेलुपि नागमाभावः । अखण्डमिति चकारान्तमित्यर्थः, चकारान्तस्यैव सूत्रे ग्रहणात् ।