SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पपाद. १. सू. १९२-१९५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमाऽध्यायः [ २५३ शृङ्खलं बन्धनमस्य शृङ्खलकः करभ उच्यते। करभाणां काष्ठम्यं पादबन्धनं शृङ्खलम्, वयःशब्दश्वायम् । शृङ्खलं बन्धनं भवतु वा माभूत् ।१९१॥ उदुत्सोरुन्मनसि ।। ७. १. १९२ ।। उत् उत्सु इत्येताभ्यामस्येत्युन्मनस्यभिधेये कः प्रत्ययो भवति । उद्गतं मनोऽस्य उत्कः, उत्सुगतं मनोऽस्य उत्सुकः,- उन्मना इत्यर्थः ।१९२। कालहेतुफलादोगे ॥ ७. १. १९३ ।। स इति वर्तते, स इति प्रथमान्तेभ्यः कालविशेषवाचिभ्यो हेतुवाचिभ्यः 'फलवाचिभ्यश्चास्मेति षष्ठपर्थे कः प्रत्ययो भवति यत्तदस्येलि निर्दिष्ट रोगचतद्भवति । द्वितीयो दिवसोऽस्याविर्भावाय, द्वितीयका, तृतीयकः, चतुर्थको ज्वरः, सततः कालोऽस्य सततको ज्वरः। हेतु,-विषपुष्पं हेतुः कारणमस्य विषपुष्पकः, काशपुष्पकः, पर्वतको रोगः । फल, शीतं फलं कार्यमस्य शीतकः, उष्णको ज्वरः । रोग इति किम् ? द्वितीयो दिवसोऽस्य जातस्य बालकस्य ।१९३। . न्या० स० काल-स इति वर्तते इति अतः कारणनिर्देशादेव पञ्चम्यन्तेभ्य इति न लभ्यते। ननु कालस्यापि रोगकारणत्वाद् हेतुग्रहणेनैव तद्ग्रहणे सिद्धे किं कालाहणेन ? न, अन्यतो भवतोऽपि रोगस्यायमस्य काल इति रोगाधिकरणभूतस्य कालस्यासंबन्धित्वे विज्ञायमानेऽपि यथा स्यादित्येवमर्थम् । प्रायोऽन्नमस्मिन्नाम्नि ॥ ७. १. १९४ ।। स इति वर्तते । स इति प्रथमान्तादस्मिन्निति सप्तम्यर्थे नाम्नि संज्ञायाँ विषये कः प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेदन्नं प्रायः प्रायेण भवति, प्रायशब्दोऽत्रान्नसमानाधिकरणो नियतलिङ्गसंख्या, प्रायः अकृत्स्नबहुत्वम् । गडापूपाः प्रायेण प्रायो वान्नमस्यां गुडापूपिका पौर्णमासी, तिलापूपिका, कृशरिका, त्रिपुटिका । नाम्नीति किम् ? अपूपाः प्रायेण प्रायो बान्नमा चन्तिषु ।१९४। न्या० स० प्रायो०-नियतलिङ्गसंख्य इति अनव्ययं पुंलिङ्ग एकवचनान्तोऽदन्तश्च पूर्वस्तु सान्तोऽव्ययत्वादलिङ्गश्च । इत्याचार्य श्री हेमचन्द्रविरचितायो...सिद्धहेमचन्द्राभिधानस्थोपज्ञ० स० प्रथमः पादः । कुल्मासादण ॥ ७. १. १९५॥ कुल्मासशब्दात्प्रथमान्तात्प्रायोऽन्नमस्मिन्नित्यर्थेऽण् प्रत्ययो भवति नाम्नि ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy