________________
२३८ ] बृहपृत्ति-लघुन्याससंवलिते [पाद. १ सू० १३२-१३८ }
अवेः संघातविस्तारे कटपटम् ॥ ७. १. १३२ ॥ __ अविशब्ददात् सामर्थ्यात्षष्ठचन्तात्संघाते विस्तारे चार्थे यथासंख्यं कटपट इत्येतौ प्रत्ययो भवतः। अवीनां संघात: अविकटः, अवीनां विस्तारः अविपटः, संघाते सामूहिकानां विस्तारे ऐदथिकानां चापवादो योगः । १३२ ।
न्या० स० अवैः संघातक-सामादिति षष्ठीमन्तरेण संघातविस्तारार्थयोरप्रतीतेः षष्ठ्यैव च प्रतीतेरित्यर्थः । संघात इति अविशब्दस्य कटपटशब्दाभ्यां सिद्धस्वरूपाभ्यां षष्ठीसमासे अविकट इत्यादि सिध्यति किमर्थो योगः ? इत्याह-सामूहिकानामिति 'षष्ठ्याः समूहे' ६-२-९ इत्यादीनाम् ।
ऐदर्थिकानामिति तस्येदम् । ६-३-१६० इत्यादीनां 'दोरीय' ६-३-३२ इति च दुसंज्ञाविवक्षायाम् । पशुभ्यः स्थाने गोष्ठः ॥ ७. १. १३३ ॥
पशुनामभ्यः षष्ठयन्तेभ्यः स्थानेऽर्थे गोष्ठः प्रत्ययो भवति, इदमर्थानामपवादः । गवां स्थानं गोगोष्ठम् , महिषीगोष्ठम् , अश्वगोष्ठम् । १३३ । द्वित्वे गोयुगः ॥ ७. १. १३४ ॥
पशुनामभ्यः षष्ठयन्तेभ्यो द्वित्वेऽर्थे गोयुगः प्रत्ययो भवति, इदमर्थानामपवादः । गवोद्वित्वं गोगोयुगम् , अश्वगोयुगम् , उष्ट्रगोयुगम् । १३४ । षट्वे षड्गवः ॥ ७. १. १३५॥ ।
पशुनामभ्यः षष्ठयन्तेश्वः षट्त्वे गम्यमाने षड्गवः प्रत्ययो भवति । उष्ट्राणां षट्वम् उष्ट्रषड्गवम् , हस्तिषड्गवम् , अश्वषड्गवम् । इदमर्थानामपवादः। १३५ । तिलादिभ्यः स्नेहे तैलः ॥ ७. १. १३६ ॥
तिलादिभ्यः सामषिष्ठयन्तेभ्यः स्नेहेऽर्थे तैल इति प्रत्ययो भवति, विकारप्रत्ययापवादः । तिलानां स्नेहो विकारस्तिलतैलम् , सर्षपतैलम् इङ्गुदतैलम् , एरण्डतैलम् । १३६ । तत्र घटते कर्मणष्ठः ॥ ७. १. १३७ ॥
कर्मनशब्दात्तत्रेति सप्तभ्यन्ताद्धटते इत्यर्थे ठः प्रत्ययो भवति । कर्माणि घटते कर्मठः । १३७। तदस्य संजातं तारकादिभ्य इतः ॥ ७. १ १३८ ॥
तदिति प्रथमान्तेभ्यस्तारका इत्यादिभ्योऽस्येति षष्ठपर्थे इतः प्रत्ययो