SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पाद. १. सू. १२७-१३१] श्री सिद्ध हेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः [ २३७ नासानतितद्वतोष्टीटनारभ्रटम् ॥ ७१.१२७ ॥ अवशब्दान्नासानतौ तद्वति च वाच्ये टीट नाट भ्रट इत्येते प्रत्यया भवन्ति नासानतौ । नासाया नमनम् अवटीटम्, अवनाटम्, अवभ्रटम् । सा नासानतिविद्यते यस्मिन् स तद्वान् नासा पुरुषः, अपकृष्टो वार्थः । तत्र अवटीटा, अवनाटा, अवभ्रटा नासिका । अवटीटः, अवनाटः, अवभ्रटः पुरुषः । अवटीटम्, अवनाटम्, अवभ्रटं वा ब्रह्मदेयम् । अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिकां नामयति । १२७ । निपिटक चिकचिचिकश्वास्य ।। ७. १. १२८ ॥ निशब्दान्नासानतौ तद्वति चाभिधेये इन पिट क इत्येते प्रत्यया भवन्ति तत्संनियोगे चास्य नेर्यथासंख्यं चिकू चि चिक् इत्येते आदेशा भवन्ति । चिकिनम्, चिपिटम्, चिक्कम्, नासिकानमनम् । चिकिना, चिपिटा, चिक्का, नासिका । चिकिन, चिपिट, चिक्कः पुरुषः । बहुवचनं रुढयर्थम् । १२८| न्या० स० नेरिन० - चिकिनमिति नासिकाया नमनं शब्दान्तरेण निशब्दस्यार्थकथनम् । रूढ्यर्थमिति तेनाप्रकृष्टे अर्थे ब्रह्मदेयलक्षणे चिकिनमित्यादयो न भवन्ति । fasबिरीस नीरन्ध्रे च ।। ७. १. १२९ ॥ निशब्दान्नीरन्ध्रेऽर्थे नासानतितद्वतोव बिडबिरीस इत्येतौ प्रत्ययौ भवतः । निबिडा : निबिरीसाः केशाः, निबिडम् निबिरोसम् वस्त्रम्, नासिकाया नमनं निबिडम्, निबिरीसम् । निबिडा, निबिरोसा नासिका । निबिडो, निबिरीसौ मैत्रः । विधानसामर्थ्यात् षत्वं न भवति । १२९ । किन्नाल्लश्चक्षुपि चिह्न पिल चुल चास्य ।। ७. १. १३० ।। क्लिन्नशब्दाच्चक्षुषि वाच्ये लः प्रत्ययो भवति तत्संनियोगे चास्य चिल पिल् ल् इत्येते आदेशा भवन्ति । चिल्लम्, पिल्लम् चुल्लम् चक्षुः । तद्योगात्पुरुषोऽपिं चिल्लः, पिल्ल: चुल्ल: । १३० । उपत्यकाधित्यके ॥ ७. १. १३१ ॥ उपत्यका अधित्यका इत्येतौ शब्दौ निपात्येते । उपाधिशब्दाभ्यां यथासंख्यम् पर्वतस्यासन्नायामधिरूढायां च भुवि त्यकः प्रत्ययो निपात्यते । उपत्यका, अधित्यका । क्षिपकादित्वादित्वाभावः । स्वभावतः स्त्रीलिङ्गावेतौ । पुंलिङ्गावपीति कश्चित् उपत्यको देशः, अधित्यकः पन्थाः, निपातनं रूढ्यर्थम् । १३१ ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy