SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३२ ] बृहवृत्ति-लघुन्थासर्सवलिते [पाद. १ सू० १०६-१०७ ] पणात्कर्म करोति स आगवीनः, रूढिशब्दोऽयम् । यत्किंचिदादाया तस्य प्रतिदानात्कर्मकर एवमुच्यते इत्येके, अन्ये तु आ गोः प्राप्तेः कर्म कारी आगवीन इत्याहुः। साप्तपदीनेति सप्तपदशब्दात्तृतीयान्तात्तदवाप्येऽर्थे ईनञ् यत्तदवाप्यं तच्चेत्सख्यं सखा वा भवति । सप्तभिः पदैरवाष्यम् साप्तपदीनं सख्यम्, साप्तपदीनः सखा, साप्तपदीनं मित्रम् ॥१०॥ न्या० स० समास-द्वितीयेति ननु समायाः कथं व्याप्तिरेकदेशे एव गर्भग्रहणात् ? सत्यं, अवयके समुदायोपचारात् । एवमिति पूर्वोक्तनील्या विजनिष्यमाणे भविष्यक्ति थाऽथे इत्यर्थः । अषडक्षाशितंग्वलंकलिंपुरुषादीनः॥७ १. १०६ ।। : अषडक्ष, आशितंगु, अलंकर्मन्, अलंपुरुष, इत्येतेभ्यः स्वार्थ ईनः प्रत्ययो भवति । अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः, सक्थ्यक्षणः स्वाङ्गे' (७-३-१२६) इति टान्तादीनः । अषडक्षीणा क्रीडा, द्वाभ्यां साध्यत इत्यर्थः। अषडक्षीणः कन्दुकः, येन द्वौ क्रीडतः। अदृश्यानि षडक्षीण्यस्य अषडक्षीणश्चैत्रः पितुः पितामहस्य पुत्रस्य वा द्रष्टोच्यते । इन्द्रियपर्यायो वाक्षशब्दः । अविद्यमानानि षडक्षाण्यस्याषडक्षीणोऽमनस्कः। विचारेण विना प्रवर्तते इत्यर्थः । आशिता गावोऽस्मिन्निति आशितंगु, अस्मादेव निपातनात्पूर्वपदस्य मोऽन्तः। तत् ईनः । आशितंगवीनमरम्यम्, अलं कर्मणे अलं पुरुषाय प्रत्यवपरि '-(३-१-४७) इत्यादिना समासः तत ईनः। अलंकर्मीणः, भरपुरुषीणः । राजाधीनमिति त्वधीनेन शाण्डादित्वात्सप्तमीसमासः । अस्ति चाधीनशब्दः । अस्मास्वधीनं किमु निःस्पृहाणाम् इति, वाक्यं हि वक्तर्यधीनं भवति इति, तदेतत् प्रयोक्तर्यधीनं भवतीति ।१०६। अदिस्त्रियां वाचः ॥ ७. १. १०७ ।। - अञ्चत्यन्तान्नाम्न ईनः प्रत्ययो वा भवति स्वार्थे न चेत्स दिशि स्त्रिंथीं वर्तते । प्राक् प्राचीनम्, प्रत्यक् प्रतीचीनम्, उदक उदीचीनम्, अवाक् अवाचीनम्, सम्यङ् समीचीनः । अदिस्त्रियामिति किम् ? प्राची उदीची दिक। दिग्ग्रहणं किम् ? प्राचीना शाखा, अवाचीना ब्राह्मणी, स्त्रीग्रहणं किमा प्राक् प्राचीनं रमणीयम् । दिश्यपि लुबन्तं स्वभावात् नपुसकम्, वाद्यात् (६-१-११) इति विकल्पे लब्धे वाग्रहणं पूर्वत्र नित्यार्थम् ॥१०७। ATML० स० अदिग्ग-प्रसज्योऽयं नम् दिगूलक्षणा स्त्री चेन्न भवतीति न तु अदिग्लक्षणयां स्त्रियामितिपर्युदासस्तेम पुक्लीवयोरपि भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy