SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पाद १. सू. १०१-१०५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २३१ पारावारं व्यस्तव्यत्यस्तं च ॥ ७. १. १०१॥ पारावारशब्दात्समस्ताव्यस्ताब्यत्यस्ताच्च निर्देशादेव द्वितीयान्तादामिन्यर्थे ईनः प्रत्ययो भवति । पारावारं गामी पारावारीणः, पारीणः, अवारीणः, अवारपारीणः ।१०१॥ अनुवलम् ॥ ७. १. १०२॥ अनुगुशब्दाद्वितीयान्तादलंगामिनि ईनः प्रत्ययो भवति । अलं पर्याप्तमित्यर्थः । गवां पश्चादनुगु तदलं गामी अनुगवीनो गोपालकः ।१०२॥ अध्वानं येनौ ॥ ७. १. १०३ ॥ अलं गामिनीति वर्त्तते। अध्वनशब्दान्निर्देशादेव द्वितीयान्तादलंगामिनि य ईन इत्येतो प्रत्ययौ भवतः । अध्वानमलं गामी अध्वन्यः अध्वनीनः ।१०३॥ अभ्यमित्रमीयश्च ।। ७. १. १०४ ॥ अभ्य मित्रशब्दान्निर्देशादेव द्वितीयान्तादलंगामिनिः ईयः प्रत्ययो भवति चकाराद्येनौ च । अभ्यमित्रमलंगामी अभ्यमित्रीयः, अभ्यमिध्यः, अभ्यमित्त्रीणः, अमित्त्राभिमुखं भृशं गन्तेत्यर्थः ।१०४। समांसमीनाद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम् ॥७. १. १०५॥ समांसमीनादयः सब्दा ईनप्रत्ययान्ता निपात्यन्ते । साप्तपदीनस्त्वीनजप्रत्ययान्तः। समांसमीनेति समांसमामिति वीप्साद्वितीयान्तात्समुदायाद्दर्भ धारयत्यर्थे ईनः पूर्वपदविभक्तेश्चालुप् । समां समां गर्भ धारयति समांसमीना गौः । समामिति 'कालाध्वनोयाप्तौ' (२-२-४२) इति द्वितीया।। अन्ये समायां समायां विजायते गर्भ विमुञ्चति समांसमीनेति पूर्वपदस्य यलोपमाहुः। व्याप्त्वभावाच्चाधिकरणे सप्तमी। अद्यश्वीनेति अद्यश्वःशब्दयोर्वार्थे समासः विजनिष्यमाणेऽर्थे विजननस्य प्रत्यासत्तौ गम्यमानायामीनः। अद्य श्वो वा विजनिष्यमाणा अद्यश्वीना गौः । एवं नाम प्रत्यासन्नप्रसवेत्यर्थः । अन्ये तु प्रत्यासत्तौ गम्यमानायां भविष्यत्यर्थे प्रत्ययमाहः । अद्य श्वो वा भविष्यति अघश्वीनो लाभः, अधश्वीनं मरणम्, एवमद्यप्रात:शब्दादीनः, अबप्रातीना गौः, अद्यप्रातीनो लाभः, अघातीनं मरणम्, आगवीनेति आगोप्रतिदानशब्दात्कारिण्यर्थे ईनः प्रतिक्षानशब्दस्य च लुक् । आगोप्रतिदानं कारी आगवीनः कर्मकरः। गवा भृतो य आ तस्मा गोः प्रत्य
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy