________________
[पाद. १. सू. ९४-९७] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः । २२९ संमुखम्, समं मुखमस्यानेनेति वा संमुखं प्रतिबिम्बमेव, अत एव निपातनात्समशब्दस्य अन्तलोपः, संमुखं दृश्यतेऽस्मिन्निति संमुखीन:, यथामुखीनः सीताया इति । संमुखीनो हि जयो रन्ध्रप्रहारिणामिति च उपमानात् ।९३।
न्या० स० यथा०-अन्तलोप इति ननु समशब्द एव वृत्तिविषये समशब्दस्यार्थे वर्तिष्यते ततः किं समस्यान्तलोपेन ?
उच्यते, समशब्दस्यापि विशेषणसमासादौ मुखशब्देन संमुख इति यथा स्यादित्येवमर्थम् । सर्वादेः पथ्यङ्गकर्मपत्रपात्रशरावं व्याप्नोति ॥ ७. १. ९४ ॥ . सर्वशब्दपूर्वेभ्यः पथिन्, अङ्ग, कर्मन्, पन्न, पात्र, शराव इत्येतदन्तेभ्यो निर्देशादेव द्वितीयान्तेभ्यो व्याप्नोतीत्वर्थे ईनः प्रत्ययो भवति । सर्वपथं स्याप्नोति सर्वपथोनो रथः । सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीणस्तापः । सर्वकर्मीणः पुरुषः सर्वपत्रीणः सारथिः, सर्वपात्रीण ओदनः, सर्वशरावीण ओदनः सर्वादेरिति किम् ? पन्थानं व्याप्नोति १९४।
आप्रपदम् ॥ ७. १. ९५॥ - प्रगतं पदं प्रपदम् पदाग्रमित्यर्थः, अथवा प्रवृद्धं पदं प्रपदम् पदस्योपरिष्टात् संस्था खलुको गुल्फ इति यावत्, आङ मर्यादायामभिविधौ वा । आ प्रपदात् आप्रपदम् 'पर्यपाङ'-( ३-१-३२ ) इत्यव्ययीभावः । आप्रपदशब्दानिर्देशादेव द्वितीयान्तात् व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति ।
आप्रपदं व्याप्नोति न तदतिवर्तते यः स आप्रपदीनः पटः, अनेन पटस्य प्रमाणमाख्यायते १९५। अनुपदं बद्धा ॥ ७. १. ९६ ॥
अनुपदशब्दान्निर्देशादेव द्वितीयान्ताहद्धा इत्येतस्मिन्नर्थे ईनः प्रत्ययो भवति । अनुपदं बद्धा अनुपदीना उपानत् । पदप्रमाणेत्यर्थः । अनुपदमिति ' दैर्येऽनुः' -(३-१-३४) इत्यव्ययीभावः ।९६।
न्या० स० अनु० - अनुपदमिति पदं लक्ष्यीकृत्यायतं बन्धनमिति क्रियाविशेषणत्वात् द्वितीयाभेदोपचाराद् बद्धत्युच्यते ।
अयानयं नेयः ।। ७. १. ९७ ॥ ___ अयानयशब्दान्निर्देशादेव द्वितीयान्तान्नेय इत्येतस्मिन्नर्थे ईनः प्रत्ययो भवति । अयानयं नेयोऽयानयीनः शारः, फलकशिरसि स्थित उच्यते । अयः प्रदक्षिणं गमनम्, अनयः प्रसव्यं वामम्, शारिद्यूते हि केचिच्छाराः प्रदक्षिणं