________________
२२८ ] बृहवृत्ति-लघुन्याससंललिते [पाद. १ सू. ८८-९३ ] पाकः पीलुकुणः, कर्कन्धुकुणः । ___ पीलु, कर्कन्धु, शमी, करीर, बदर, कुवल, अश्वत्थ, खदिर इति पील्वादिः ।८७॥ कर्णादेर्मूले जाहः ॥ ७. १. ८८ ॥
कर्णादिभ्यः षष्ठयन्तेभ्यो मूलेऽर्थे जाहः प्रत्ययो भवति । कर्णस्य मूलं कर्णजाहम्, अक्षिजाहम् ।
कर्ण, अक्षि, आस्य, वक्त्र, नख, मुख, केश, दन्त, ओष्ठ, भ्रू, शृङ्ग, पाद, गुल्फ, पुष्प, फल इति कर्णादिः ।८८
पक्षात्तिः ॥ ७. १. ८९॥ ..पक्षशब्दात्षष्ठयन्तान्मूलेऽर्थे तिः । प्रत्ययो भवति । पक्षस्य मूलं क्षतिः ।८९।
न्या० स० पक्षा०-पक्षतिरिति मूलेप्यभिधेये शब्दशक्तिस्वाभाव्यात् स्त्रीलिङ्गः । हिमादेलुः सहे ॥ ७. १. ९० ॥
हिमशब्दात्षष्ठचन्तात्सहे सहमानार्थ एलुः प्रत्ययो भवति । हिमस्य सहः हिमं सहमानः हिमेलुः ॥१०॥ बलवातादलः ॥७.१२.९१ ।।।
मलनात, इत्सेताश्या काष्ठकाभ्यां सहेऽर्थे ऊलः प्रत्ययो भवति । बलस्य सहा बलं सहमानः बलूलः, वातूल : १९१ ।।
न्या० स० बल०-वातूल इति वातसहः, वातासहोऽप्येतदर्थ एवेति शब्दभेदः । शीतोष्णतृप्रादालुरसहे .।। ७. ११. ९२ ॥
शीत, उष्ण, तृप्त इत्येते. त्या षष्ठयन्तेभ्योऽसहेऽसहमानेर्थे आलुः प्रत्ययो भवति । शीतस्यासहः शीतमसहमानः शीतालुः, उष्णालुः, तृप्रालुः, तृप्रम् दुःखम् ।९२। यथाखमुसंमुखादीनस्तदश्यतेऽस्मिन् ॥ ७. १. १३ ॥
यथामुखसंमुख इत्येताभ्यां तदितिः प्रथमान्ताभ्यामस्मिन्निति सप्तम्यर्थे ईनः प्रत्ययो भवति यत्तत्प्रथमान्तं दृश्यते चत्तद्भवति, यथामुखं दृश्यतेऽस्मिन यथामुखीन: आदर्शादिः मुखस्यः सदृशोठों यथामुखं प्रतिबिम्ब उच्यते, अत एव निपातनायथाथा (३-१-४१.) इति प्रतिषेधेऽप्यमयीभावः । समं मुखं