________________
१९४ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ४ सू० १५९-१६२ ] उपदा शुल्कं वा देयम् पञ्चको देवदत्तः, शत्यः, शतिकः, साहस्रः, प्रास्थिकः, द्रौणिकः । वृद्ध्यादिग्रहणं किम् । पञ्च मूल्यमस्मिन्नस्मै वा दीयते ।१५८। पूरणार्दादिकः ॥ ६. ४. १५९॥
पूरणप्रत्ययान्तादर्धशब्दाच्च तदिति प्रथमान्तादस्मिन्नस्मै वा दीयत इत्यर्थयोरिकः प्रत्ययो भवति यत्तत्प्रथमान्तं वृद्ध्यादि चेत्तद्भवति, इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्क वा देयम् द्वितीयिकः, तृतीयिकः, पञ्चमिकः, षष्ठिकः, अर्ध-अधिकः, अधिका स्त्री। अर्धशब्दो रूपकाचे रूढः ।१५९।
न्या० स० पूर०-इकणिकटोरिति पूरणप्रत्ययान्तेभ्यः पूर्वेणेकण् , अर्द्धात्तु ' कंसार्द्धात् '. ६-४-१३५ इतीकद ।
भागाघेकौ ॥ ६. ४. १६०॥
भागशब्दात्तदस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयमिति विषये य इक इत्येतौ प्रत्ययौ भवतः, इकणोऽपवादौ । भागोऽस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयं भाग्यः, भागिकः, भागिका स्त्री। भागशब्दोऽपि रूपकार्धस्य वाचकः ।१६०। तं पचति द्रोणादाञ् ॥६. ४. १६१ ॥
तमिति द्वितीयान्ताद्रोणशब्दात्पचत्यर्थे अञ् प्रत्ययो वा भवति, पक्षे इकण् । द्रोणं पचति, द्रोशः, द्रौणिकः, द्रौणी द्रोणिकी स्थाली गृहिणी वा, द्वौ द्रोणौ पचति द्विद्रोणी। 'अनाम्न्यद्विः प्लुप्' (६-४-१४१) इति अधिकणोलुप् ।१६१॥ संभवदवहरतोश्च ॥ ६. ४. १६२ ।।
तमिति द्वितीयान्तान्नान्नः पचति संभवदवहरतोश्वार्थयोर्यथाविहितमिकणादयो भवन्ति । तत्राधेयस्य प्रमाणानतिरेकेण धारणं संभवः, अतिरेकेणावहारः । प्रस्थं पचति संभवत्यवहरति वा प्रास्थिकः कटाहः, प्रास्थिकी स्थालो, एवं खारीकः, कौडविकः, संभवतिः अकर्मक: सकर्मकश्च संभवति तत्र सकर्मक इह ग्राह्यः । संभवत्यवगृह्णातीत्यर्थः । चकारः पचता संभवदवहरतोः समुच्चयार्थः । तेनोत्तरत्रार्थत्रयस्याप्यनुवृत्तिः ॥१६२।।।
न्या० स० संभ०-अकर्मक इति यथा प्रस्थोऽत्र संभवति माति नातिरिच्यत इति अकर्मकः, प्रस्थमयं संभवत्यवगृह्णाति न निर्वमति नातिरेचयतीति सकर्मकः ।
समुच्चयार्थ इति न त्वाकर्षणार्थः, तेन चानुकृष्टमित्यस्याप्रवृत्तिः ।